SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ २२१ शिल्परत्ने [पूर्वभागः द्वारपालकमध्यादिष्वन्तराले प्रकीर्तिताः । चण्डप्रचण्डरथनेमिसुपाञ्चजन्यं दुर्गागणेशरविचन्द्रमहानुभावाः । सर्वेश्वरः सुरपतिश्च तथा दशैते प्राकारमञ्चमुखगोपुरकल्पनीयाः ॥ ५२ ॥ एवं स्वस्वागमोक्तानां तत्तत्स्थाने विशेषतः ॥ ५३ ॥ परिवारविशेषाणां प्रतिमामथ विन्यसेत् ।। करोतु सदनं तत्र प्रतिमा कारिता यदि ॥ ५४ ॥ पीठश्चेन्नैव कर्तव्यमिति वा नियमो न वा। स्थिते देवे स्थितास्ते स्युः परिवारास्तथासिते ॥ ५५ ॥ निषण्णाः शयनेऽपि स्युरिति प्राह पितामहः । पीठं चेत् परिवाराणां तारमर्कद्वयाङ्गुलम् ॥ ५६ ॥ तदर्धमुच्छ्रयं तस्य मेखलात्रयसंयुतम् । शिलाभिर्वेष्टकाभिर्वा सुधया वा प्रकल्पयेत् ॥ ५७ ॥ अथ तत्तबलेः कल्पगदिता देवताः क्रमात् । तत्तत्स्थानेषु वा कल्प्याः स्वस्वार्चनविधीरिताः ॥ ५८ ॥ परिवारबिम्बदैर्ध्य पूजांशद्विगुणं शिवे । अन्येषां स्वस्वबिम्बोच्चद्विगुणं वा प्रकल्पयेत् ॥ ५९ ॥ अध्यध वा तत्सम वा कारयेल्लक्षणान्वितम् । मूले हर्म्यत्रिपादं वा मूलाध वा तदर्धकम् ॥ ६ ॥ गर्भगेहसमं वाथ गर्भाध वा त्रिपादकम् । एकहित्रिचतुष्पञ्चषट्सप्तकरमेव वा ॥१॥
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy