SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ २२२ · शिल्परले [पूर्वभागः ३० ॥ वृषस्थानं तु पुरतः स्यादाग्नेय्यां महानसम् | मातॄणां तु यमोपान्ते गजवक्रस्य नैर्ऋते ॥ वारुणे वासुदेवस्य स्कन्दस्य तदनन्तरम् । वायव्यामथ वैशान्यामुमादुर्गालयः स्मृतः ॥ ३१ ॥ उत्तरे धनदस्य स्याद् गोष्ठागारं तु शूलिनि । मातृपीठं यमाद् बाह्ये मृगे शास्तारमाचरेत् ॥ ३२ ॥ आर्या च वायुभागे तु फल्लाटे षण्मुखं तथा । सोमस्य बाह्ये धनदः निर्माल्याशी तथादितौ ॥ ३३ ॥ ईशेन्द्रमध्ये धातुः स्याद् वृत्तस्यैशेऽथवा पुरः । अमिगोपुरयोर्मध्ये धान्यानामिति केचन ॥ ३४ ॥ मध्ये तु वह्निमातॄणां स्नानंकार्यगृहं स्मृतम् । मठस्तु याम्ये बाह्ये स्यात् पुष्पस्य यमविघ्नयोः ॥ ३५ ॥ रक्षोब्धिमध्ये शास्त्राणां गोशाला वारुणे बहिः । वारुण्यां शयनस्थानं ज्येष्ठायां वायुदक्षिणे ॥ ३६ ॥ विद्यापीठं भवेन्मुख्ये पर्जन्ये क्षेत्रपस्य तु । ईशेऽन्तश्चण्डनाथस्य रवीणां तु विधेर्बहिः ॥ ३७ ॥ लोकेशानां स्वस्वदिक्षु चन्द्राग्न्योर्मध्यमेऽश्विनौ । बहिर्द्वितीय हारायां विश्वेषां यमरक्षसोः ॥ ३८ ॥ शास्ता च रक्षोदिम्भागे भद्रकाली तथा बहिः । रक्षोवारुणयोर्मध्ये शेषनागालयं स्मृतम् ॥ ३९ ॥ वसूनामम्बुमरुतो मुनीनां वायुसोमयोः । सोमेशमध्ये रुद्राणां क्रमेणैवं प्रकल्पयेत् ॥ ४० ॥ ·
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy