SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ परिवारविधानम्] द्विचत्वारिंशोऽध्यायः । श्रीमन्दिरादिनामानि गोपुराणां विशेषतः। . सन्त्याकारवशाद् भूषाभेदैः संस्थानभेदतः ॥ ५८ ॥ इति शिल्परत्ने गोपुरविधानं नाम एकचत्वारिंशोऽध्यायः । अथ द्विचत्वारिंशोऽध्यायः। ___ अथ परिवारविधानम् । अष्टौ वा परिवाराः स्युादशैव भवन्ति वा । अथ षोडश वा कार्यास्तथा द्वात्रिंशदेव वा ॥ १ ॥ द्वात्रिंशत्परिवारास्तु जातिहम्र्ये विशेषतः। . छन्द षोडश कर्तव्याः शेषयोहीदशैव वा ॥ २ ॥ अष्टौ क्षुद्रविमानानां सर्वं सर्वेषु वाचरेत् । वाहो विघ्नपतिर्ब्रह्मा मातरोऽथ गुहो हरिः ॥ ३ ॥ दुर्गा निर्माल्यभुक् चाष्टौ परिवाराः प्रकीर्तिताः । तथैव दशलोकेशा निर्माल्याशी च मातरः ॥ ४ ॥ एते च द्वादश प्रोक्ताः परिवाराः सुरालये।.. एते च विघ्नराजश्व गुहो दुर्गा हरिस्तथा ॥ ५॥ स्वस्वोचितदिशि स्थाप्याः परिवारास्तु षोडश । वास्तुप्रकरणोद्दिष्टा ईशानाद्याश्च देवताः ॥ ६ ॥ यास्ता द्वात्रिंशदत्रोक्ताः स्थाप्याः स्युस्तक्रमेण हि । एवं वान्यमते कार्याः रिवारा विशेषतः ॥ ७ ॥
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy