SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ गोपुरविधानम् ] एकचत्वारिंशोऽध्यायः । तारात् पञ्चांशसप्तांशं सप्तांशदशकं तथा । द्विगुणं वा सपादं वा सार्धद्विगुणमेव वा ॥ ३७ ॥ हारोत्सेधं प्रकर्तव्यमन्तर्मण्डलतः क्रमात् । एकत्रिशरसप्ताङ्कमात्रं नीत्वाथ दक्षिणे ॥ ३८ ॥ क्रमेण विन्यसेद् द्वारं बिम्बमध्याद् यथोचितम् । मूगे + + निरीक्ष्यैव (?) कर्तव्यं गोपुरं ततः ॥ ३९ ॥ लिङ्गमध्यात् तु वामेन नीत्वा वा द्वारमाचरेत् । तन्मध्याद् गोपुरायामं कुर्यादुभयतः समम् ॥ ४० ॥ द्वारयोगं कवाटं च कुर्यात् पूर्वोक्तमार्गतः । मूलाधिष्ठान पादोच्चे वेदेष्वृषिभुजङ्गमैः ॥ ४१ ॥ नन्दपङ्खीशमार्ताण्डैर्भक्ते हित्वा तदशकम् । गोपुराद्यङ्गमङ्घ्रि च कुर्याद् वा सर्वगोपुरे ॥ ४२ ॥ पादबन्धमधिष्ठानमुपपीठं तु पूर्ववत् । प्रवेशदक्षिणे गर्भ न्यसेदारूढभित्तिके ॥ ४३ ॥ द्वारतुङ्गपुरग्रामराजधान्यादिषूदितम् । करोतु वात्र विधिवत् सुराणां गोपुरेऽपि च ॥ ४४ सोपपीठमधिष्ठानपादोच्च चोत्तरान्तकम् । विधायोदितमार्गेण शेषे षोढा कृते पुनः ॥ ४५ सपादांशं तु मञ्चोचं भागेन प्रस्तरोदयम् । भागेन कन्धरोत्सेधं सत्रिपादशिकं शिरः ॥ ४६ २१.७
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy