SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ गोपुरविधानम्] एकचत्वारिंशोऽध्यायः। दीपसीनि च कार्या स्याद् योनिरेका न सङ्करा । तस्यां वेद्यां न्यसेद् दीपपात्रं कांस्यादिकं पुनः ॥ ९७ ॥ यावद् वेदिकयोर्मध्यं तावद् दीपान्तरालकम् । अर्धपक्षियंदा दृष्टा तदा तां कोणपार्श्वयोः ॥ ९८ ॥ द्वाराणां पार्श्वयोवाथ यथायुक्ति परित्यजेत् । अन्त्यवेयूलतः कार्य तद्युक्त्या वेदिकोत्तरम् ॥९॥ वेदिकाघनवत् कार्य तदनं तञ्चतुर्गुणम् । तारमुत्तरभूषाढ्यं वेदिकाध्रिषु विन्यसेत् ॥१..॥ वेद्युत्तरान्तमथवा लुपालम्बनमिष्यते । उत्तरस्य तु विष्कम्भादेकद्वित्रिचतुर्गुणम् ॥ १.१ ॥ वेदिवेद्यासु संबद्धा चतुष्कोणेषु नाघ्रिषु ॥ १.१३॥ इति शिल्परत्ने पञ्चप्राकारलक्षणं नाम चत्वारिंशोऽध्यायः । अथ एकचत्वारिंशोऽध्यायः। __ अथ गोपुरम् । प्रतिवप्रं तु कर्तव्यं द्वारे द्वारे तु गोपुरम् । क्षुद्राल्पमध्यमुख्यानां धिष्ण्यानां स्वप्रमाणतः ॥ १॥ द्वारशोभा द्वारशाला द्वारप्रासादहHके । द्वारगोपुरमित्येते क्रमान्नाम्ना प्रकीर्तिताः ॥३॥ एकद्वित्रितलं वा तु द्वारशोभाख्यमाचरेत् । द्वित्रिवेदातलं कुर्याद् द्वारशालारख्यगोपुरम् ॥ ३ ॥
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy