SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ मागः तत्पादपतिविहितो हि विशेष एष विष्कम्भतो विरहितेन विभक्तपतिः । शाला तृतीयविहिता गुणभक्ततारा साधारणी निगमवर्णसुरेश्वराणाम् ॥ ६८ ॥ हीना चतुर्थगदितायतपतिकाख्या विष्कम्भमानकृतदैर्घ्यपदा तथान्त्या । एवं द्विधा कृतविधानविशिष्टनाना प्राह्ये च ते कनकसूत्रमिवान्त्यवर्णात् ॥ ६९ ॥ अथ दीपमाला अथका मध्यहारायां कारयेद् दीपमालिकाम् । सदीपवेद्याभिवृतामेकद्वित्रितलान्विताम् ॥ ७० ॥ उपानाधज्रितुल्यं यन्मूलहर्म्यस्य तेन वै। चतुरादिद्वादशान्तैर्भक्त्वा संख्यैस्तदंशकम् (?) ॥ ७१॥ संयुक्त्तवा वा वियुक्त्वा वा पादमानं करोत्विह । अथवाश्विहस्तमारभ्य द्वादशाङ्गुलवृद्धितः ॥ ७२ ॥ कुर्याद् वा सप्तहस्तान्तं पादमानमिहाखिले । अष्टाष्टाङ्गुलवृद्धया वा मन्मथान्तकमन्दिरे ॥ ७ ॥ सामान्यविधिना पश्चात् तेनाद्यङ्गसमुन्नतिः । वालावसाने दण्डान्तं प्रायेणात्र विधीयते ॥ ७४ ।। प्रासादनाहपादेन तुल्यं नातोऽधिकं कचित्। । विस्तारं दीपशालायास्तस्मादष्टाष्टमात्रकम् ॥ ०५ ॥
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy