SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ मण्डपलक्षणम् ] एकोनचत्वारिंशोऽध्यायः । पूर्वोक्तमार्गमाश्रित्य स्तम्भादीनि करोतु वा । आयताश्रादयः सर्वे भवन्त्युक्त्या च मण्डपाः ॥ ३४ ॥ प्रासादसम्मुखे कुर्यान्मण्डपानां चतुष्टयम् । मुखमण्डपमादौ तु प्रतिमामण्डपं ततः ॥ ३५ ॥ १९९ स्नानमण्डपमन्यं हि नृत्तमण्डपमेव च । मण्डपान्मण्डपं वाथ सालात सालमथापि वा ॥ ३६ ॥ कराडीनं न कुर्वीत ह्येकादशकरं शुभम् | स्तम्भालङ्कारभेदेन बहुधा ते भवन्ति हि ॥ ३७ ॥ चतुरश्रश्चतुष्पादो वसुनासाविभूषितः । ब्रह्मासनाभिधानः स्यान्मण्डपो वा प्रपाथवा ॥ ३८ ॥ त्रिपङ्किषोडशस्तम्भं सरङ्गं व्यष्टनासिकम् । सकूटं वा चतुर्द्वारं चतुर्दिक्षु सनासिकम् ॥ ३९ ॥ देवद्विजनरेन्द्रार्ह नाम्ना सिद्धं भवन्ति हि । एकभारं चतुष्पादं श्रीकरं नाम मण्डपम् ॥ ४० ॥ द्विभारं षोडशस्तम्भं मण्डपं स्वस्तिकाभिधम् । बाह्ये तु द्वादशस्तम्भं नाम्ना तु विजयं तथा ॥ ४१ ॥ कर्णबन्धसमायुक्तं मण्डपं भद्रनामकम् । दिशामुखं चतुर्दिक्षु भद्रनासिकयान्वितम् ॥ ४२ ॥ मण्डपं दीर्घतुर्यनं सभारङ्गमिति स्मृतम् । द्विभद्रं षोडशपदं तत् तथैवेन्दुकान्तकम् ॥ ४३ ॥
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy