SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ १९. . . शिल्परले - [पूर्वभागः सपादहितयं मञ्चं पादोत्सेधं शरांशकम् । सत्रिपादांशकं मञ्चं पादं सार्धयुगांशकम् ॥ ८७ ॥ पादोनयंशकं मञ्चं व्योमाशं वेदिकोदयम् । गलं पादोननेत्रांशं सार्धाब्ध्यंशं शिरोदयम् ॥ ८८ ॥ पक्षांशं स्तूपिकामानं शान्तिकादिषु पञ्चसु । साधारणेन वा कुर्यादिदं सुरगृहोत्तमे ॥ ८९॥ अम्बुजासनकादीनि नामानीह भवन्ति च । अथ सप्ततलं सप्तषष्टिकभागे तु कृते तत्सदनोदये ॥ ९ ॥ सपादाग्न्यंशमायङ्गं पादं सार्धरसांशकम् । .. तदर्ध प्रस्तरोत्सेधं षड्भागं चरणोदयम् ॥ ११ ॥ पादोनत्र्यंशकं मञ्चं सार्धपञ्चांशमद्धिकम् । प्रस्तरं + दलाक्ष्यशं पादं साधिशरांशकम् ॥ १२ ॥ प्रस्तरं सार्धपक्षांशं भूतांशं चरणोदयम् । सावितिभागं मञ्चोच्च पादं पादोनपञ्चकम् ॥ ९३ ॥ द्विभागं प्रस्तरोत्सेधं स्तम्भ सार्धयुगांशकम् । पादोनयंशकं मञ्चं व्योमांशं वेदिकोदयम् ॥ ९४ ॥ पादोनद्व्यंशकं कर्ण सार्धवेदांशकं शिरः।। पक्षांशं स्तूपिकामानं सप्तभूमौ सुरालये ॥ ९५ ।। शान्तिकाद्यविशेषेण कुर्यात् सर्वं यथाविधि । श्रीछन्दादीनि नामानि बहून्यत्र भवन्ति हि ॥ ९६ ॥
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy