SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ धान्तिकादिनियमः] सप्तत्रिंशोऽध्यायः ।। १८३ तद्गुणांशमधिष्ठानं षडंशं चरणायतम् । गुणांशं मञ्चतुङ्गं तु भूतांशं चरणोदयम् ॥ १४ ॥ द्विभागं प्रस्तरोत्सेधं शिवांशं वेदिकोदयम् । द्विभागं गलमानं तु सार्धवेदांशकं शिरः ॥ १५ ॥ स्तूप्युच्च सार्धभागं तु कुर्याच्छान्तिकसद्मनि । चतुस्त्रिंशद्विभक्ते तु कारयेत् सदनोदये ॥ १६ ॥ सार्धामयंशमधिष्ठानं तद्वयं चरणायतम्। . गुणांशं प्रस्तरोत्सेधं पादं सार्धषडंशकम् ॥ १७ ॥ गुणांशं मञ्चमानं तु शिवांशं वेदिकोदयम् । गलोच्चं साधलोकांशं भूतांशं शिखरोदयम् ॥ १८ ॥ अध्यर्धाशं शिखामानं सदने पौष्टिकाभिधे । त्रयस्त्रिंशद्विभक्ते तु सदनोत्सेधमानके ॥ १९ ॥ गलं सार्धद्विभागं स्याज्जयदेऽन्यत् तु पूर्ववत् । षट्त्रिंशद्भाजिते तुङ्गे युगभागं धरातलम् ॥ २० ॥ वस्वंशं पादमानं तु मञ्चं सार्धत्रिभागिकम् । सप्तांशं चरणोत्सधं गुणांशं मञ्चमानकम् ॥ २१ ॥ एकांशं वेदिकोत्सेधं गुणांशं तु गलोदयम् । भूतांशं शिखरोत्सेधं सार्धाशं स्तूपिकोदयम् ॥ २२ ॥ अद्भुताख्ये गृहे कुर्याद् द्वितले देवपूजिते । चत्वारिंशत्कृते तुङ्गे वेदभागं धरातलम् ॥ २३ ॥ द्विगुणं तस्य पादोच्च मञ्चमानं युगांशकम् । तत्पादं सार्धसप्तांशं त्रिभागं प्रस्तरोदयम् ॥ २४ ॥
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy