SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ उपकक्षणम् ] यशोऽध्यायः : । छिन्द्यान्मूलं लुपानां वै तद्वितानाख्यसूत्रतः । तस्माद् वलयलम्बान्तं वलयाद् वलयान्तरम् ॥ ३९ ॥ वलयोत्तरयोर्मध्यं वलयाद् वंशकावधि | छिन्द्यात् परशुना सम्यग् यथानिम्नं तु तक्षयेत् ॥ ४० ॥ कुक्षिनिम्नं च सर्वासां सज्यचापमिवाचरेत् । अर्धचन्द्राभमित्येके नीप्रान्ते तु विशेषतः ॥ ४१ ॥ कुक्षिनिम्नं प्रकर्तव्यं जङ्घाष्पृष्ठसमं नृणाम् | वलयस्थानपर्वाणि लुपाविस्तारमानतः ॥ ४२ ॥ उत्तरद्विगुणं वा स्यादुत्तरोपान्तपर्वकम् । ऊर्ध्वबिन्दुगताल्लुम्बसूत्रात् कूटार्धमानकम् ॥ ४३ ॥ नीत्वा तत्र शिखां कृत्वा छिन्द्यात् परशुना ततः । व्यासं सङ्कोचयेत् तत्र सज्यचापाभमेव तु ॥ ४४ ॥ उत्तानधनुषा तुल्यं पुच्छभागोर्ध्वमाचरेत् । लुपाल्लुपान्तरं नीप्रस्थाने स्यात् करमात्रकम् ॥ ४५ ॥ प्रायेण कथितः सद्भिः किञ्चिन्न्यूनाधिकं तु वा । वलयत्रिगुणविस्तारं कुर्याद् वलयबन्धकम् ॥ ४६ ॥ नानापत्रविचित्राद्यैर्भूषेयत् तद् यथारुचि । उत्तरार्धं त्रिपादं वा वंशस्योच्छ्रयमिष्यते ॥ ४७ ॥ उच्छ्रयेण तथा तारमुच्छ्रयेण समं तु वा । तुलायां न्यस्य वंशाङ्घ्रि वंशं वा तत्र विन्यसेत् ॥ ४८ ॥ वंशस्य तारद्विगुणमध्यर्धे वास्य विस्तृतम् । तत्पादं वंशपादस्य घनं त्रिभागं वा समाचरेत् (?) ॥ ४९ ॥ १७१
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy