SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ लुपालक्षणम् । अयस्त्रिंशोऽध्यायः । तचदिष्टलुपायाममिष्टयोगात् प्रकल्पयेत् । लुपाफलकमादाय तक्षितं तक्षकोत्तमैः ॥ १७ ॥ . ध्वजसूत्रं तु कर्तव्यमामूलाग्रं तु पार्श्वयोः। सूत्राभ्यन्तरं कार्य चूलिकाव्यासमानतः ॥ १८ ॥ द्वियङ्गुलान्तरं कार्य (तस्य ?) ध्वजसूत्रस्य पार्श्वयोः। पार्श्वसूत्रे प्रकर्तव्ये पुनस्तन्मानसाधनैः ॥ १९ ॥ मात्वाकयेचूलिकोचे वलयस्थानकेषु च । मूलाग्रयोविशेषेण नितरां मानवित्तमः ॥ २० ॥ उत्तरान्नीप्रपर्यन्तलुपायामे(षु?तु) भाजिते । कुर्यान्नेत्रांशतो नीप्राद् वलयं शेषमूर्ध्वतः ॥ २१ ॥ त्रिधा विभक्ते कर्तव्ये वलयद्वितयं समम् । उत्तरादूर्ध्ववंशान्तं पञ्चधा विभजेत् पुनः ॥ २२॥ दक्षिणोत्तरयोर्मध्यं द्विभागं शेषमूर्ध्वतः। सप्तांशे नयनांशेन वलयोत्तरमध्यमम् ॥ २३ ॥ वलयद्वितये कार्य वलयाव्य(?)मेव च । वलयादूर्ध्ववंशान्तं त्रिभिरवं करोतु वा ॥ २४॥ तत्तच्छोभानुरूपेण युक्त्या वा कारयेदिदम् । पूर्वोक्तविन्दुस्थानेषु चतुरङ्गुलमात्रकम् ॥२५॥ तुर्यश्रं कल्पयेत् तत्र कर्णसूत्रं समालिखेत् । तत्सूत्रं शिल्पशास्त्रज्ञैर्वितानमिति कथ्यते ॥ २६ ॥ तस्य तिर्यग्गतं सूत्रं लम्बसूत्रं विदुर्बुधाः। करोतु सुषिरं तत्र वलयस्थानके बुधः ॥२७॥
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy