SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ शिल्परने [पूर्वभागः युग्मायुग्मास्तुलाः कार्या देवागारे विशेषतः । एकाङ्घ्रथूनादिदण्डोच्छ्रितमुपरिनिधायोत्तरे वाजनं प्राक् तिर्यग्दण्डोच्छ्रिताङ्घयूनितविततितुलास्तासु वंशानुवृत्त्या । स्वार्धाकान्ता जयन्तीस्तदुपरि सुसमीकृत्य कृत्वानुमार्ग निश्छिद्रं छादयेत् स्वोचितघनफलकाप्रस्तरेणोर्ध्वभागम् । १५८ द्वारार्धतः कदलिकाकरणे + गर्भकुड्यं क्रमान्मुकुलयेदथवा शिलाद्यैः । द्वारोर्ध्वतोऽष्टपुटचारुलसत्तरङ्ग गर्भार्घतुङ्गमपिधानशिलाभिरामम् ॥ ३२३ ॥ इति शिल्परले उत्तरलक्षणं नाम एकोनत्रिंशोऽध्यायः । अथ त्रिंशोऽध्यायः । अथ प्रस्तरम् । स्तम्भोत्सेधार्धमानं वा मासूरोत्सेधमात्रकम् । प्रस्तरस्योच्छ्रयं कुर्यात् पादस्योर्ध्वं विशेषतः ॥ १ ॥ स्तम्भार्घादिसमुच्छ्रये प्रकृतिभक्ते प्रस्तरे वातिधृ त्यंशे चोत्तरवाजने त्रिशशिभिर्भूतालिरंशैस्त्रिभिः । क्ष्माद्रीन्दुक्षितिभिः सवाजनकपोतालिङ्गपट्यन्तरी त्र्येकांशैः प्रतिवाजने प्रतिकपोते क्ष्मांशहान्यावरे ॥ २ ॥
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy