SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ १५३ कूटकोष्ठादि] पञ्चविंशोऽध्यायः । पञ्चसूत्रमयं छिद्रं प्रादक्षिण्यक्रमेण तु । नन्द्यावर्तस्य पुष्पाभं नन्द्यावर्तमिति स्मृतम् ॥११॥ - आर्जवौ स्तम्भकम्पौ चेन्जालकं तदृजुक्रियम् । पुष्पखण्डं सकर्ण च नन्द्यावर्तमिवाचरेत् ॥ १२ ॥ गुणिकाजालकं धाम विन्यासाकृतिरन्ध्रकम् । स्वस्तिकं वर्धमानं च सर्वतोभद्रमित्यपि ॥ १३ ॥ कवाटयुगलं वैकं घाटनोडाटनक्षमम् । जालकाकृति चेत् तत्तु वातायनमिति स्मृतम् ॥ १४॥ लोहै मोपलैर्द्रव्यैर्वेष्टकाभिस्तु जालकम् । इति शिल्परत्ने जालकलक्षणं नाम - चतुर्विशोऽध्यायः । अथ पञ्चविंशोऽध्यायः। अथ कूटकोष्ठादि। कुड्ये पत्यादिभक्ते विदिशि विरचयेत् कूटमेकांशविस्तारायामं विशदीर्घा दिशिदिशि विशतामेकभागेन शालाम् । शालाकूटान्तराले चरणविरहितांशोन्मितां नासिका तत् पार्श्वद्वन्द्वे सजालं चरणविरहितांशादितः पञ्जरं च ॥१॥ प्रासादादिविशाले तु दशभागकृते पुनः । नन्दाष्टसप्तभक्ते वा रुद्रभास्करभाजिते ॥ २ ॥ त्रयोदशहते वाथ कूटमेकांशमानतः । शालामानं द्विभागं वा त्रिचतुर्भागमेव वा ॥ ३ ॥ १. 'वा स्तम्भकम्पा चे क. पाठः.
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy