SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ शिल्परले पत्राख्यं मकराख्यं वा चित्रतोरणमेव वा । मध्योर्ध्वे शूलसंयुक्तं पार्श्वयोश्च विशेषतः ॥ २१ ॥ लोहैर्दारुशिलाभिर्वा कर्तव्यं द्वारतोरणम् । वृत्तौ तोरणपादौ तु कर्तव्यौ वा यथारुचि ॥ २२ ॥ दिङ्नन्दवसुभागेन शिखावन्तौ स्वदीर्घतः | तदूर्ध्वे चोत्तरं कार्ये तदुच्चं इण्डमानकम् ॥ २३ ॥ दण्डत्रिपादम वा तद् वाजनमिदं विदुः । दलं तत् त्रिचतुर्भागं क्षेपणं तद्दलं भवेत् ॥ २४ ॥ सार्धदण्डं सपादं वा स्यादूर्ध्वो वलकोदयम् | तस्यां स्युर्मङ्गलान्यष्टौ तदूर्ध्वे त्रिशिखान्यपि ॥ २५ ॥ पञ्चवक्राणि तानि स्युः हिण्डोच्चानि मध्यतः । समं त्रिपादङ्गानि पार्श्वपत्राणि वा भवेत् ॥ २६ ॥ हित्रिवेदाङ्गुलं युक्त्या पत्राणां विस्तृतिः स्मृता । स्वोत्सेधाष्टनवांशं वा पत्राणां बहलं स्मृतम् ॥ २७ ॥ १४०. [पूर्वभाग: शिलादृढप्रवेशेन पादमूलेन निश्चलम् । तोरणानि युगहस्तमितानि मोर्ध्वमर्धविततानि भवन्ति । केतवः सुरगृहोत्तरदैर्ध्याः स्वोक्त + + + विचित्रपताकाः ॥ स्तम्भे स्तम्भे प्रकर्तव्यं सर्वेषां स्तम्भतोरणम् ॥ २९ ॥ पादोच्चं तु त्रिधा भक्त्वा त्रिभागं चरणोदयम् । उत्तरं वाजनं त्वब्जं क्षेपणं क्षुद्रवाजनम् ॥ ३० ॥ तदूर्ध्वं झषबन्धं तु शेषभागेन कारयेत् । स्तम्भविस्तारमानेन झपविस्तारमाचरेत् ॥ ३१ ॥
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy