SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ भित्तिलक्षणम् ] एकविंशोऽध्यायः । मयोऽष्टाङ्गलमारभ्य द्विद्यङ्ग्लविवर्धनात् ! नालं षोडशमात्रान्तं पञ्चधेति जगाद ह ॥ १२ ॥ त्रिचतुष्पञ्चषण्मानं तारं तस्य समं धनम् । तारात् पञ्चत्रिभागं स्यादग्रं नालस्य वा पुनः ॥ १३ ॥ नालं पुंशिलया कार्य नालस्य वरुणोऽधिपः। अथवा पीठनालेन समायामादिसंयुतम् ॥ १४ ॥ शुण्डुभिश्चित्रवल्ल्यादिभूषणैश्च विभूषितम् । .. एवं तले तले कार्य गोमुखं प्रस्तरान्तरे ॥ १५ ॥ दक्षिणोदङ्मुखेष्वत्र विमानेषु महामतिः। प्रणालं प्राङ्मुखं कुर्यात् पूर्वसूत्रेऽथवा पुनः ।। १६ ॥ इति शिल्परने नाललक्षणं नाम । . विंशोऽध्यायः । अथ एकविंशोऽध्यायः। अथ भित्तिः। चित्वेत्यधिष्ठानमिहानुरूपं समं तलीकृत्य शिलाप्रतानैः । . विभज्य गर्भान्तरबाह्यभित्तिं तन्मध्यनाडी रचयेद् यथार्हम् ॥ वह्नयादितिथ्यवधिकौजविभागभक्ते व्यासे गृहस्य नयनादुरगान्तिमांशैः । पञ्चांशतश्च वसुभागयुतेऽर्धतश्च गर्भालयस्य विततिं नवधोदितेति ॥ २ ॥ बाह्या गृहव्यासगजांशतः स्याद् भित्तिः परा गर्भगजांशतश्व। नाडी समन्तादुभयान्तराले सम्मेल्य वा भित्तियुग गृहेऽल्प ॥
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy