SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ११० शिल्परने [पूर्वभागः तत्सम वा त्रिपादं वा महावाजननिर्गमम् । निर्गमं मानसूत्रात् तु स्वोत्सेधचरणं तु वा ॥ ११८ ॥ तत्समं पादहीनं वाप्यर्ध सर्वेषु वस्तुषु । निर्गमं मानसूत्राद् वा तत्तत्स्थानात् तु वा पुनः ॥११९॥ पक्षान्तरम् - पत्रमानमिति प्रोक्तमुत्तराजन्मनिष्क्रमम् । समन्तः (?) परितः कुर्याद् दिग्विदिक्ष्वङ्गुलाष्टकम् ॥१२०॥ ततः संवर्धयित्वाष्टमात्रं तस्माद् यथारुचि । अङ्गुलीषोडशयुतं द्विकरान्तं पुनः पुनः ॥ १२१ ।। प्रायेण नृणां भवने पत्रमानमुदाहृतम् । अथालङ्कारः। प्रस्तरे वा गले वाथ कपोते वा विशेषतः ॥ १२२ ॥ पादान्तरेषु युग्मैर्वाप्ययुग्मैालैः (१) पराङ्मुखैः । वलभ्या भूतहंसैस्तु भूषयेच्चाखिलेष्वपि ॥ १२३ ॥ प्रत्युत्सेधसमं वाथ त्रिपादं वार्धमेव वा । प्रतेरग्रं प्रकर्तव्यं पूर्ववत् पार्श्वयोईयोः ॥ १२४ ॥ . अथ मुष्टिबन्धम् । पादान्तरेषु कर्तव्यं त्रिपढें गलसीमनि । मूलपादसमं व्यासं त्रिपढें पादमूलगम् ॥ १२५ ।। पादान्तरगतं सर्व त्रिपादं दण्डविस्तृतम् । पादबाह्यसमं वेशं नीप्रं प्रतिसमं भवेत् ॥ १२६ ॥
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy