SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ शिल्पस्त्रे [ पूर्वभाग: प्रतितुङ्गं द्विभागेन शिवांशं वाजनोदयम् । प्रतिबन्धविशेषोऽयं मयबन्ध इति स्मृतः ॥ ७९ ॥ त्रिषडंशकृतोत्सेधे जङ्घे सार्धंशकं खुरम् । कम्पमधशकं प्रोक्तं भूतांशैः पङ्कजोदयम् ॥ ८० ॥ तुझे षड्विंशदंशे खुरमथ जगतीकैरवं कम्पकर्णे कम्पं पद्मं कपोतं तदुपरि + पथा निम्नमन्तादिवक्रम् | कम्पं भागेन षड्भिः शरशशिगुणचन्द्रै कबन्धाशकाशे द्वाभ्यामेकेन कुर्यादमरवरपतेर्मन्दिरे मञ्चबन्धम् ॥ ८१ ॥ अधिष्ठानस्य चोत्सेधे त्रयोविंशतिभाजिते । उपानमेकं द्वाभ्यां तु पद्ममेकेन ( कल्पयेत् ) ॥ ८२ ॥ १०६ कर्णे द्विभागमंशेन कम्पमेकेन कम्पकम् | व्यंशेन पट्टिकां विद्यात् कम्पमेकेन कल्पयेत् ॥ ८३ ॥ पद्ममेकेन कर्णे तु एकांशेनैव कल्पयेत् । एकांशेनाम्बुजं कुर्याद् गुणांशं कुमुदोदयम् ॥ ८४ ॥ पद्ममेकेन कर्तव्यमालिङ्गं त्वेकभागया । त्रिभट्टिमिन्दुभागेन द्विभागं प्रतिमानकम् ॥ ८५ ॥ वाजनं त्वेकभागेन कल्पयेत् तु यथाक्रमम् । प्रतिबन्धविशेषः स्यात् त्रिकर्णे तत् प्रकीर्तयेत् ॥ ८६ ॥ द्वाविंशद्भाजितोत्सेधे पादाभ्यां पादुकं शरैः । जगतीं कुमुदं वेदैः पट्टमंशेन कारयेत् ॥ ८७ ॥
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy