SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ प्रतिबन्धानि ] एकोनविंशोऽध्यायः । ऊर्ध्ववाजनमेकांशं महापट्टिर्गुणांशतः । तदूर्ध्वकम्पमेकांशं पादबन्धमिदं विदुः ॥ ५१ ॥ षड्विंशद्विभजेदुश्ञ्चमुपानं चैकभागतः । द्विभागेन दलं कुर्यात् कम्पमेकेन कारयेत् ॥ ५२ ॥ षडंशं जगतेरुच्चमेकांशे दलमानकम् | कर्णमेकेन कर्तव्यमेकेनाब्जं तु कारयेत् ॥ ५३ ॥ कुमुदोच्चं गुणांशेन पद्ममेकेन कारयेत् । कम्पमंशेन कर्तव्यं कर्णोच्चं तु द्विभागतः ॥ ५४ ॥ एकांशं कम्पतुङ्गं तु तत्समं तु दलोदयम् । महापट्टिद्विभागेन दलमेकांशमानतः ॥ ५५ ॥ कम्पमेकेन कर्तव्यमष्टाश्रं कुमुदान्वितम् । अम्भोजकेसराख्यातं पादबन्धविशेषकम् ॥ ५६ ॥ १०३ अथ प्रतिबन्धानि । चन्द्रदृक्शशिशिवांशकै· रसैर्धातुभिश्च समभागिकैः क्रमात् । वाजनं प्रतिमुखत्रिकश्रुतौ कर्णवृत्तकुमुदे च वप्रकम् ॥ ५७ ॥ षत्रिभागसमभागिके तले नागवक्रसदृशं मुखद्दयम् । देवविप्रनृपमन्दिरेषु तद् योग्यकं ह्युरगबन्धकं भवेत् ॥ ५८ ॥ तुझे षड्विंशदंशे खुरमथ जगतीं कैरवं कम्पकर्णे कम्पं पद्मं कपोतं तदुपरि + तथा निम्नदन्तादिवत्रम् । कम्पं भागेन षड्भिः शरशशिगुणचन्द्र कवेदांशकांशैर्द्धाभ्यामेकेन कुर्यादमरनरपतेर्मन्दिरे मञ्च बन्धम् ॥ ५९॥ आत्ताधिष्ठानतुङ्गे तु चतुर्विंशतिभाजिते । स्यादष्टभागैर्जगती सप्तांशैः कुमुदं भवेत् ॥ ६० ॥
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy