SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ - शिल्परत्ने पूर्वभागः सर्वेषां प्रतिबन्धानां कुमुदं वृत्तमुच्यते । अत्र पूर्व मञ्चकानि मञ्चकस्योच्छ्रयं कुर्यान्नवभागं विचक्षणः ॥ ५ ॥ द्विभागं पादुकं तत्र सप्तांशं कुट्टिमं भवेत् ।। द्वादशांशकृतोत्सेधे द्विभागं पादुकं विदुः । ६ ॥ सप्तांशं कुट्टिमोत्सधं रामाशं प्रतिरुच्यते । प्रतिमञ्चकनामैतन्नृणां साधारणं विदुः ॥ ७ ॥ पञ्चभागकृतोत्सेधेऽप्पेकांशं पादुकोन्नतम् । द्विभागैर्जगतीं तस्य कर्णमंशेन कारयेत् ॥ ८ ॥ प्रतेरुच्छयमेकेन नाम्ना तद् गलमञ्चकम् । सूर्याशककृतोत्सेधे द्यशं तत्पादुकं भवेत् ॥ ९ ॥ षडंशं कुट्टिमं विद्याद् गलं व्यंशं तु कारयेत् । वंशं तत्प्रस्तरं विद्याद् गलमञ्चकमीरितम् ॥ १० ॥ कुर्वीत स्फुटमिह जन्मकुट्टिम (तत्) ___ तत्पर्ट गलमथ पट्टिकां प्रति च । नेत्राङ्गक्षितिनयनेन्दुनेत्रभागै र्मासूरैर्वलरिपुभाजिते क्रमोऽयम् ॥ ११ ॥ जन्म त्रिभागं वसुभिश्च जङ्घा तत्पट्टिकांशेन गलं द्विभागम् । तदूर्ध्वपढें रजनीकरांशं प्रतिर्गुणांशैर्गलमञ्चकाख्यम् ॥ १२ ॥ नवभागकृतोत्सेधे शिवांशं पादुकोन्नतम् । जङ्घाकर्णी + त्रिभागैर्गलमञ्चे प्रति दृशाम् ॥१३॥
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy