________________
हरिभद्रसरिकृता
न्या. प्र. पृ०६ यदमूर्त वस्तु तन्नित्यं दृष्टं यथा परमाणुरिति साधर्म्यदृष्टान्तत्वम् । एतदाभासानामेव प्रक्रान्तत्वात् । नार्थो वैधम्र्येणेति न प्रदर्शितः । अयं च साध्यसाधनधर्मानुगत इष्यते । इह तु साध्यधर्मोऽस्ति न साधनधर्मः । तथा ४ चाह । परमाणौ हि साध्यं नित्यत्वमस्ति । अन्त्यकारणत्वेन नित्यत्वात् । साधनधर्मो भूतत्वं नास्ति । कुतः । मूर्तत्वात् परमाणूनाम् । मूर्तत्वं च मूर्तिमत्कार्यघटाधुपलब्धेः सिद्धमिति ॥ साध्यधर्मासिद्धो यथा । नित्यः शब्दोऽभूर्तत्वाद् बुद्धिवदिति । यदमूर्त वस्तु तन्नित्यं दृष्टं यथा ८ बुद्धिः । बुद्धौ हि साधनधर्मोऽभूर्तत्वस्ति साध्यधर्मो नित्यत्वं
नास्ति अनित्यत्वाबुद्धोति सूत्रप्रयोगः सुगम एव । व्याप्तिं दर्शयति । यदमूर्त वस्तु तन्नित्यं दृष्टं यथा बुद्धिः । आह कयमयं साध्यधर्मासिद्ध ?
इति । अत्राह । बुद्धौ हि साधनधर्मोऽमूर्तत्वमस्ति । तदमूर्तत्वमतीतेः । साध्यधर्मो १२ नित्यत्वं नास्ति । कुतः १ । अनित्यत्वाबुदेरिति ॥ उभयासिद्धो द्विविधः ।
कथम् ? इत्यत्राह । सन्नसंश्चति । समिति विद्यमानोभयासिनः । ततश्च असन्निति अविद्यमानोभयासिद्धः । प्रयोगो मौल एव द्रष्टव्यः । यत
आह । तत्र घटवदिति विद्यमानोभयासिद्धः । ततध नित्यः १६ शब्दोऽभूतत्वाद्घटवादित्यत्र न साध्यधर्मो नित्यस्वलक्षणः नापि
साधनधर्मोऽमूर्तत्वलक्षणोऽस्ति अनित्यत्वान्मूतत्वाद्घटस्येति । तथा आकाशवदित्यविद्यमानोमयासिद्धः । ततश्च नित्यः शब्दोऽभूतत्वादा. काशवदिति । नन्वयमुभयसद्भावात्कथमुभयासिद्ध इत्याशङ्कयाह । तदसस्ववादिनं प्रति । आकाशासत्त्ववादिनं बौद्ध मति । सांख्यस्येत्यर्थः । सति हि तस्मिनित्यत्वादिधर्मचिन्ता नान्ययेति ॥ अनन्वय इत्यादि । अविद्यमा. नोऽन्वयोऽनन्वयः । अमदर्शितान्वय इत्यर्थः । अन्वयोऽनुगमो व्याप्तिरिति
अनन्तरम् । लक्षणमाइ । यत्रेत्यादि । यत्रेत्यभिधेयमाह । विनान्वयेन २४ विना व्याप्तिदर्शनेन साध्यसाधनयोः साध्यहेत्वोरित्यर्थः । सहभाष
एकवृत्तिमात्रम् । प्रदर्श्यते कथ्यते आख्यायते । न वीप्सया साध्यानुगतो
२.