________________
( ३ )
सांख्यं प्रति विनाशी शब्द इति ॥ अप्रसिद्ध विशेष्यो यथा । सांख्यस्य बौद्धं प्रति चेतन आत्मति ॥ अप्रसिद्धो भयो यथा । वैशेषिकस्य बौद्धं प्रति सुखादिसमवायि४ कारणमात्मेति ॥ प्रसिद्धसंबन्धो यथा । श्रावणः शब्द इति ॥ एषां वचनानि धर्मस्वरूपनिराकरणमुखेन प्रतिपादनासंभवतः साधनवैफल्यतश्चेति प्रतिज्ञादोषाः ॥ उक्ताः पक्षाभासाः ॥
असिद्धानैकान्तिकविरुद्धा हेत्वाभासाः ॥ तंत्रासिद्धश्चतुः प्रकारः । तद्यथा । उभयासिद्धः १, अन्यतरासिद्धः २, संदिग्धासिद्धः ३, आश्रयासिद्धश्वेति ४ ॥ तंत्र शब्दानित्यत्वे साध्ये चाक्षुषत्वादित्युभयासिद्धः ॥ कृतकत्वा१२ दिति शब्दाभिव्यक्तिवादिनं प्रत्यन्यतरासिद्धः ॥ वाष्पादिभावेन संदिह्यमानो भूतसंघातोऽग्मिसिद्धावुपदिश्यमानः संदिग्धासिद्धः ॥ द्रव्यमाकाशं गुणाश्रयत्वादित्याकाशासत्त्ववादिनं प्रत्याश्रयासिद्धः ॥ अनैकान्तिकः षट्१६ प्रकारः । साधारणः १, असाधारणः २, सपक्षैकदेशवृत्तिविपक्षव्यापी २, विपक्षैकदेशवृत्तिः सपक्षव्यापी ४, उभयपक्षैकदेशवृत्तिः ५, विरुद्धाव्यभिचारी चेति ६ ॥ तंत्र साधारणः शब्दः प्रमेयत्वान्नित्य इति । तद्धि नित्यानित्य२० पक्षयोः साधारणत्वादनैकान्तिकम् । किं घटवत्प्रमेयत्वादनित्यः शब्द आहोस्विदाकाशवत्प्रमेयत्वान्नित्य इति ॥ असाधारणः श्रावणत्वान्नित्य इति । तद्धि नित्यानित्य