SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ काश्यपशिल्पे द्विसप्ततितमः पटलः । २३१ गमनेषु तु सूत्रं वा ललाटे वामपार्श्वके । वामाघ्रिगुल्फमध्ये तु द्विपाके सूत्रकं भवेत् ॥ १८ ॥ सूत्रं ललाटमध्ये च दक्षिणे तु द्वयाङ्गुलम् । वामे च पुटपार्वे तु हिक्काहृदयमध्यमे ॥ १९ ॥ नाभिवामे द्वयार गुल्यं योनिवामे युगाङ्गुलम् । वामाघ्रिगुल्फस्पृशं स्याद्गमनस्य तु सूत्रकम् ।। २० ॥ अभङ्गस्योक्तमार्गेण नतमात्रं च बुद्धिमान् । गमने सूत्रकं वाऽपि हस्तयोर्नीवमेव वा ॥ २१ ॥ सव्यहस्ततृणं कुर्यात्सूत्राद्वयन्तरमंशकम् । द्वाविंशतिद्वयगुलं वाऽपि त्रयोविंशतिरेव च ॥ २२॥ मणिबन्धे मध्यमां तु बाह्ये चैव तथैव हि । नीवं तबिविधं चैव पात्रे वामकरेऽपि वा ॥ २३ ॥ कलासप्तदशं चाष्टमानानौ चा(नतश्चा)पि नीत्रकम् । नाभिसीमावसाने तु कूर्परं तस्य नीत्रकम् ॥ २४ ॥ म(प)ञ्चाङ्गुलमथो वाऽपि तिथिषोडशमेव वा । दक्षिणं तृणकं हस्ते योनिसीमावसानके ॥ २५ ॥ एकद्वित्रिचतुर्मात्रं मृगसस्य(सूत्र) प्रलम्बयेत् ।। ज्ञानमुद्रासिंहकों यथासौन्दर्यमाचरेत् ॥ २६ ॥ वामहस्ते परे शूलबासीमाक्सानके। पूर्वसूत्रं तथैव स्याद् शिखाबद्धस्य नीत्रकम् ।। २७॥ चत्वारिंशतिमात्रं वा शूलं तु खगु(ग)तोपरि(मरे)। शूलाग्रो धातुको पीवा कङ्कालं बन्धयेत्सुधीः ॥२८॥ दक्षिणे परहस्तेन डमरूं कटिकेऽपि वा।। तु(क)टिदीर्घस्य विस्तारं नवांशैरितिकेऽपि वा ।। २९ ।। मण्डं क्षीणं गुणागुल्यं पद्माकारं द्विपार्श्वके । बलयद्वयसंयुक्तं तर्जनी ऋजुतो भवेत् ॥ ३० ॥ तर्जन्यां गृह्यमेवं हि हनुसीमावसानकम् । मणिबन्धस्य नीनं तु पूर्वसूत्रं तथैव च ॥ ३१ ॥ चत्वारिंशतिमेवाह्यमंशाधिकमथापि च । वामे कपालपात्रं वा भान्वंशं रसनीव्रकम् ॥ ३२ ॥
SR No.008420
Book TitleKashyashilpam
Original Sutra AuthorN/A
AuthorVinayak Ganesh Apte
PublisherAnand Ashram
Publication Year1926
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy