SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ काश्यपशिल्पे षष्टितमः पटल: गजस्तोपमं सव्यं वामं व्यालसमं तु वा । ललाटस्य तु मध्ये तु वामे तु स्थानमध्यमे ॥ ४९ ॥ वामाङ्घ्रिनलिकामध्ये लम्बयेद्ब्रह्मसूत्रकम् । तत्सूत्राद्वामजान्वे (न्वन्तं) नीव्रं चैत्र नवाङ्गुलम् ।। ९० ।। नतमानं दशांशं स्याद्वामे गौरीसमायुतम् । सप्तमं नृत्तमाख्यातं जगदुःखविनाशकम् ॥ ९१ ॥ तमेव षड्भुजं भेदमभयं डमरुं तथा । शूलं दक्षिणपार्श्वे तु कपालं विस्मयं तथा ॥ ९२ ॥ गजस्तोपमं वामे सूत्रं प्राय ( प ) यदष्टकम् | २२१ चतुर्भुजं त्रिनेत्रं वा जटामुकुटमण्डनम् ॥ ९३ ॥ अभयं डमरुं सव्ये वामेऽग्निर्गजहस्तवत् । अपस्मारं विना पीठे वामाङ्घ्रिकुञ्चितं स्थितम् ॥ ९४ ॥ तत्तत्पुरस्थित पीठे सव्यपादकनिष्ठके । तपादं कुश्चितं युक्त्या सूत्रं युक्त्या तु लम्बयेत् ।। ९५ ।। नवमं नृत्तमाख्यातं गङ्गाधरमतः परम् ॥ ९६ ॥ इत्यंशुभद्भेदे काश्यपशिल्पे नृत्तमूर्तिलक्षणं नाम पञ्चषष्टितमः पटलः । ॥ अथ षट्षष्टितमः पटलः ॥ गङ्गाधरमहं वक्ष्ये संक्षेपेणाधुना शृणु । स्वस्तिकं दक्षिणं पादं वामपादं तु कुश्चितम् ॥ १ ॥ ललाटमध्यमात्सर्वे नीत्वा नवयवान्तकम् | दक्षिणे चाक्षिसीमन्ते सव्यनासापुटान्तरे || २ || हिक्कामध्यमनाभिस्तु सव्ये द्व्यङ्गुलकं भवेत् । दक्षिणे मेदमूलं स्यान्मध्ये वेदाङ्गुलान्तरे ॥ ३ ॥ पाष्ण्यश्च मध्यमे चैव हिकासूत्रं प्रलम्बयेत् । युगांशं नतमानं तु पादाङ्गुष्ठद्वयान्तरे ॥ ४ ॥ अष्टादशाङ्गुलं प्रोक्तं त्र्यांशं पाष्णिकान्तरम् । वसिष्ठस्य जटाबन्धं वामे त्वीषन्नताननम् || ५ ॥ दक्षिणे पूर्वहस्तं तु कुरु देवीस्तनाश्रितम् । aTha पूर्वहस्तेन देवीमालिङ्गन्नं कुरु || ६ ||
SR No.008420
Book TitleKashyashilpam
Original Sutra AuthorN/A
AuthorVinayak Ganesh Apte
PublisherAnand Ashram
Publication Year1926
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy