SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ ૨૦ काश्यपशिल्पे पञ्चचत्वारिंशः पटलः । अलिन्द्रं शिवभागेन हारव्यासं तथैव च । पञ्जरं कर्णकूटं च एकैकांशेन कल्पयेत् ॥ ६० ॥ कूटतारसमायामं शेषं हारान्तरेऽन्त्रितम् | शालायामे तु वेदांशे अर्थाशं हारयोतन (र) म् ॥ ६१ ॥ आदिभूम्येवमाख्यातमूर्ध्वं पूर्ववदाचरेत् । विस्तारे तु दशांशे तु भान्त्रंशं तु तदालयम् ॥ ६२ ॥ पूर्वेऽपरे च शालायां पञ्चभागेन कल्पयेत् । शेषं पूर्ववदुद्दिष्टं चतुर्भूमि (स्तल) पिदं परम् ।। ६३ ॥ तारमेकादशांशं तु आयामं च तथैव हि । पूर्वेऽपरे च पार्श्वे च शालापञ्चांशमायतम् || ६४ ॥ एकांशं पञ्जरव्यासं कूटव्यासं शिवांशकम् । हारान्तरं तथाऽर्घाशं कल्प्यैवं ( कल्प्यं वै ) प्रथमं तलम् ॥ ३५ ॥ तस्योर्ध्वं त्र(भू)मयः सर्वे (:) पूर्ववत्परिकल्पयेत् । तारमेकादशांशे तु तदीर्घं तु त्रयोदशे ॥ ६६ ॥ गुणांशं गर्भगेहं च द्विभागं भक्तिविस्तृतम् । अलिन्द्रं भागया (तः) कल्प्यं हारभागेन कल्पयेत् ॥ ६७ ॥ पार्श्वे शाला तु वेदांशं पशं मुखपृष्ठयोः । हारान्तरं शिवांशं स्याद्व्योमपञ्जरकूटयोः ॥ ६८ ॥ शेषं पूर्ववदुद्दिष्टं रसभूम्येवमेव तु । त्रयोदशशविष्कम्भे आयामे च तथैव हि ॥ ६९ ॥ भूतांशं गर्भगेहं तु गृहपिण्डी द्विभागया । अलिन्द्रं तु शिवांशेन खण्डहर्म्य शिवांशकम् ॥ ७० ॥ कोष्ठायामं तु भूतांश रसांशेन च पञ्जरम् | कूटमंशेन कर्तव्यं हारान्तरं तथैव च ॥ ७१ ॥ अथवा तत्र दशान्तरमायामं तु त्रिपञ्चकम् । मुखे मुखे महाशाला सप्तांशेन प्रकल्पयेत् ॥ ७२ ॥ पञ्चभागेन कर्तव्यं पार्श्वयोः कोष्ठदीर्घकम् । शेषं पूर्ववदिष्टं सर्वालंकारसंयुतम् ॥ ७३ ॥ सप्तभूमिसमाख्यातं महागोपुरकं भवेत् ।
SR No.008420
Book TitleKashyashilpam
Original Sutra AuthorN/A
AuthorVinayak Ganesh Apte
PublisherAnand Ashram
Publication Year1926
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy