SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ [पा० २० सू० १.] श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः । इत्यत्र षष्ट्या अनन्तरादिपदाध्याहारेण आनन्तर्यादिनिरूपित- पश्यर्थः ? आहोस्विदितरः कोऽप्यर्थस्तन्निरूपितसम्बन्धश्च 40 सम्बन्धार्थकत्वं स्वीकृत्य योजनीयम्" इत्यर्थः प्रत्यपादि । षष्ठ्यर्थः ? इति चेत्, निशम्यताम् -'दर्भाणां स्थाने शरैः प्रस्तन च “षष्ठी स्थानेयोगा” [ पाणि० ११.४८ ] इति रितव्यम्" इत्यादाविव प्रकृतेऽपि स्थानपदस्य प्रसङ्गार्थकत्वमेव, सूत्रस्य स्थानं योगः [ सम्बन्धः ] यस्या इत्यर्थे बहुब्रीहिं कृत्वा षष्याश्च तन्निरूपितसम्बन्धार्थकत्वम्, स्थानशब्दश्च भावसाधनः । B निपातनादेत्वं स्वीकृत्यैव अनिश्चितसम्बन्धविशेषा षष्ठी स्थानयोगेत्यर्थोऽभ्युपेय इति स्थानं षष्ठ्यर्थत्वतः कथंकारं प्रच्याव्यता । मिति वाच्यम्, स्थानस्य षष्ठ्यर्थत्वानभिप्रेतत्वादेव स्थानेन योगोऽस्या इति तृतीयान्तेन समासो दर्शितो भाष्ये, न तु स्थानं योगोऽस्या इति । स्थानेन योग इति भाष्यस्य स्थानपदार्थेन 10 अर्थात् स्थानपदार्थतावच्छेदकेन सह योगः सम्बन्धोऽस्या इत्यर्थः,अस्या इत्यत्र षष्ठ्यर्थो वाच्यवाचकभावः। आनन्तर्य-सामीप्यस्थानादेः षछ्यत्वाभावः " तदस्यास्त्यस्मिन् " [ पाणि० ५.२. ९४.] इति भाष्येऽप्यभिव्यज्यते । ननु केवलषयाचारितायां शब्दे यावतां सम्बन्धानां सम्भ15 वस्तेषां बोधः प्राप्नोतीति स्थानयोगैव षष्ठी यथा स्यादिति नियमार्थ “षष्ठी स्थानेयोगा” [ पाणि० १. १. ४८. ] इति सूत्रमिति भाष्यकारेण प्रतिपाद्य षण्यर्थानामानन्त्येऽपि लोके यथा स्वस्वामिभावादय आर्थाः, पितृत्वादयो यौनाः, गुरु-शिष्यभावादयो मौखाः, ऋत्विक्त्वादयः सौवाश्च सम्बन्धा विविधाः सन्ति, 20 न तथा शब्दस्य शब्देन स्थानातिरिक्तः सम्बन्ध इत्यभिप्रायेण सूत्रप्रत्याचिख्यासादशायां " यद्यपि लोके बहवोऽभिसम्बन्धा आर्या योना मौखाः सौवाश्चेति, शब्दस्य तु शब्देन सह कोऽन्योऽभिसम्बन्धो भवितुमर्हस्यन्यदतः स्थानात्” इति प्रतिपादनात् स्फुटमेव स्थानस्य सम्बन्धता तत्रत्यप्रकरणपर्यालोच 25 नेन षष्ट्यर्थता चावसीयत इति चेत्, मैवम् स्थानं योगो यस्या इति समानाधिकरणबहुव्रीहिं परिहाय स्थानेन योगोऽस्या इति व्यधिकरणबहुव्रीहि प्रदर्शनपर भाष्यतः स्थानस्य षष्ठयर्थत्वाभाव एव कल्पयितुं युक्तः, ".. 'अन्यदतः स्थानात्" इत्यस्य तु शब्दस्य शब्देन सह स्थानपदार्थनिरूपितसम्बन्धादन्यः । 30 सम्बन्धः को भवितुमर्हतीत्यर्थः कार्य इति न किमपि वैषम्यम्। तथा चान्तरेणैव सूत्रं [ प्रत्याख्याततया ] स्थानपदाध्याहारेण तन्निरूपितसम्बन्धार्थकत्वं षष्ठ्याः स्वीकुर्वतां सर्वत्राऽऽदेशस्थले परेषां मते यथा निर्वाहस्तथाऽऽचार्यमतेऽप्ययमेव निर्दूषणो राजपथोऽवलम्बनीय इति सुधीभिराकलनीयम् । अत एव गतिमेतां 35 भाष्यकृत्प्रदर्शितामात्मने रोचयमानेनाऽऽचार्येण वैयाकरणान्तरेव सूत्रबन्धो न कृतः । ן ननु तिष्ठत्यस्मिन्नित्यर्थे " करणाssधारे” [५. ३. १२९.] इत्यतेनानट्प्रत्यये निष्पन्नः स्थानशब्द आश्रयविशेषवचनः प्रती यते, स एवार्थो भवतामभिमतोऽभिमतश्च तन्निरूपितसम्बन्धः ૮૨ प्रसङ्गरूपस्थानपदार्थश्च वृत्तिविशेष्यतावच्छेदकतावच्छेदकताकेष्टसाधनत्वप्रकारक भ्रमविषयत्वप्रकारकज्ञानीयविशेष्यतावच्छेद- 45 कावच्छिन्न विशेष्यता केष्टसाधनत्वप्रकारकप्रमाविषयत्वप्रकारक - ज्ञानीयविशेष्यतावच्छेदकताऽवच्छेदकतेति, वृत्तित्वं प्रथमविशेष्यतावच्छेदकतावच्छेदकताऽन्वयि । तत्र वृत्तित्वे स्थानपदार्थतावच्छेदकत्वं परम्परया वर्तते न तु साक्षात्, स्थानपदार्थत्वमित्यस्य स्थानपदप्रयोज्योपस्थितीय मुख्यविशेष्यत्वमित्यर्थः, ता- 50 दृशविशेध्यत्वं च चरमविशेष्यतावच्छेदकतावच्छेदकतायाम्, तादृशावच्छेदकतानिष्ठस्थान पदार्थतारूप विशेष्यतानिरूपिता साक्षादवच्छेदकता ज्ञाने, ज्ञाननिष्ठावच्छेदकतानिरूपिताऽवच्छेदकता अवच्छेदकावच्छिन्न विशेष्यतायाम्, तदवच्छेदकतानिरूपिताऽवच्छेदकता इष्टसाधनत्वप्रकारक भ्रमविषयत्वप्रकारकज्ञाने, तदव - 55 च्छेदकतानिरूपिताऽवच्छेदकता विशेष्यतावच्छेदकतावच्छेदकतायाम्, तदवच्छेदकतानिरूपितावच्छेदकता वृत्तित्वे, इत्येवंरीत्या परम्परया स्थानपदार्थतावच्छेदकत्वं वृत्तित्वे समायातम्, तेन वृत्तित्वेन सह सर्वत्रादेशस्थले स्थानिनामन्वयो भवतीति स्थानपदार्थतावच्छेदकीभूतवृत्तित्वानुयोगिकेन स्थानिप्रतियोगिकेन 60 केनचित् सम्बन्धेन भवितव्यम्, स च सम्बन्धो निरूपितत्वम्, एष निरूपितत्वरूपसम्बन्ध एव सर्वत्रादेशसूत्रेषु स्थानिपदोत्तरषध्या अर्थः । यत्र पूर्व - परयोरुभयोः स्थाने आदेशोऽभिमतस्तत्रैकः स्थानी सहार्थे तृतीयया निर्दिश्यते, सहार्थश्च तुल्ययोगः, तुल्यसम्बन्ध इति यावत्, स हि तुल्ययोगः पुत्रेण 65 सह पिता गच्छतीत्यादौ गमनक्रियया सह पिता-पुत्रयोः समवाय इव चैत्रेण सह मैत्रो धनीतीत्यादौ धनेन सह चैत्र-मैत्रयोः स्व-स्वामिभाव इव, देवदत्तेन सह यज्ञदत्तो गौर इत्यादौ गौरत्वेन सह देवदत्त यज्ञदत्तयोः समवायादिरिव च समानेन सह समानानां स्थाने दीर्घ इत्यादौ स्थानपदार्थेन [ स्थानपदार्थताव- 70 च्छेदकेन ] वृत्तित्वेन सह पूर्व - परसमानयोर्निरूपितत्वात्मकोऽवसेयः । स्थानपदार्थीभूतचरमविशेष्यतावच्छेदकताऽवच्छेदकतायाः स्वरूपसम्बन्धेन दीर्वादौ विधेयेऽन्वयः । तथा चायं वाक्यार्थः फलति - पूर्व-परसमाननिरूपितवृत्तित्ववद्विशेष्यतावच्छेदकतावच्छेदकताकेष्टसाधनत्वप्रकारक भ्रमविषयत्वप्रकारकज्ञानीयविशेष्य- 76 तावच्छेदकावच्छिन्नविशेष्यता केष्टसाधनत्वप्रकारकप्रमाविषयत्वप्रकारकज्ञानीय विशेष्यतावच्छेदकतावच्छेदकतावान् दीर्घ इति । समन्वयसुपन्थास्तु- “समानानाम् ० [१.२.१.] इत्यादी
SR No.008409
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 1
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy