SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ अध्याय सूर्यः प्रातर्यथारत्न-जलादर्शादिबस्तुषुः ॥ संक्रामं स्तापवत्सर्वं । करुते गुरुतेजसा ॥ ११ ॥ एकस्तथैवसद्भावः । खर्विवर्तेः प्रवर्त्तते ॥ हेयोपादेयता बुद्धि-स्त्याज्या सांसारिकीततः ॥ १२ ॥ खं परं लघुवास्थुलं । नशुभंनाशुभंहृदि ॥ त्याज्यं ग्राह्यं नकिञ्चित्स्या-द्विधेरैक्ये सुबुद्धिवत् ॥ १३ ॥ मान्यं यथान्ये सामान्यं । स्यादेकं व्यक्तिषु स्फुटम्।एको वा समवायोप्य-वयव्यवयवादिषु ॥ १४ ॥ जैना अपि द्रव्यमेकं । प्रपन्नाजगतितले ॥ धर्मोऽधर्मोऽस्तिकायोवा । तथैक्यं ब्रह्मणे मतम् ॥१५॥ लोकालोकाप्तमाकाशं । परिणाम्येकमात्मना ॥ तथा कथा न वितथा। स्यादेकब्रह्मणः सतः॥ १६ ॥ स्याद्भाव एक एवाय-मस्तिप्रत्ययगोचरः॥ तल्लक्षणो निषेधोपि । सविधेः सविधेखलु ॥१७॥ संत्तांविनानासत्तास्या-न्नाजीवोजीवबर्जने ॥ ज्ञेयत्वादिगुणैरेवं । नभावो भावतोऽपरः ॥१८॥ विधिविधत्तेखं रूपं । खेनविश्वेन संगतम् ॥ विधिद्योजगत्कर्ता । भर्ता हर्तास्वशक्तितः ॥१९॥ ऐकस्य ब्रह्मणःसर्वे । विबर्ताः प्रतिभांत्यमी । अनंतशक्ते नाऽर्थः । क्रियाभावेन वास्तवाः ॥ २० ॥ परसंग्रहवागेषा । विषयोऽस्याहि तात्विकः ॥स तात्विकस्तं यो वेत्ति । ज्ञानवैराग्यसात्विकः ॥ २१ ॥ ॥ इतिश्रीअर्हद्गीतायांब्रह्मकाण्डेपंचदशोऽध्यायः ॥१५॥
SR No.008408
Book TitleArhadgita Bhagvadagita ya Tattvagita
Original Sutra AuthorMeghvijay
Author
PublisherMahavir Granthmala
Publication Year
Total Pages86
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy