SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ פון श्रीयाकिनीमहत्तराधर्मसूनु श्रीहरिभद्रसूरिशेखरसूत्रितम् अनेकान्तजयपताकाख्यं प्रकरणम् । स्वोपज्ञया 'व्याख्यया श्रीमुनिचन्द्रसूरिप्रणीतेन टिप्पणकरूपेण विवरणेन च समलङ्कृतम् । प्रथमोऽधिकारः । (मूलम् ) नमः सद्गुरुभ्यः । जयति विनिर्जितरागः सर्वज्ञस्त्रिदशनाथकृतपूजः । सद्भूतवस्तुवादी शिवगतिनाथो महावीरः ॥ १ ॥ य इहानिन्द्यो मार्गों विशेषतः पूर्वगुरुभिराचरितः । तत्र प्रवर्तितव्यं पुंसा न्यायः सतामेषः ॥ २ ॥ यद्यपि न तथाभूता शक्तिः प्राक्कर्मदोषतस्तदपि । शक्त्यनुरूपमुपायो न यतस्तत्प्राप्तयेऽप्यन्यः ॥ ३ ॥ सत्यपि गुणवत्येव तु स चान्यभावेऽपि पण्डितैर्गदितः । यत्रैव यस्य शक्तिः सात्म्यं च विशेषतस्तेषाम् ॥ ४ ॥ स तमाराधयितुमलं यस्मादाराध्य चैनमाप्नोति । शक्त्यन्तरं छुपायान्तरसाधकमुत्तमं नियमात् ॥ ५ ॥ तस्मान् ममापि जाता शठोक्तिभिर्मोहितान् जडान वीक्ष्य । २० प्रकरणकरणसमीहा पूर्वनिमित्तात् कृपातश्च ॥ ६ ॥ जिनवचनश्रवणान्नः शक्तिरपि न नास्ति तत्र तस्यैव । सोधहेतुभावात् तुच्छत्वाद् वा शठोक्तीनाम् ॥ ७ ॥ १ श्रीमुनिचन्द्रसूरिभिस्त्वेषा वृत्तिरूपेणोल्लिखिता । प्रेक्ष्यतां पञ्चमं पृष्ठम्। सर्वज्ञाय' इति ग-पाठः । ३ आर्याच्छन्दोनिबद्धं पद्यमिदम्, अतः परं नव 'यतस्तत् प्राप्यतेऽप्यन्यः' इति क-पाठः । ५ २ ‘ॐ नमः पश्चाम्यपि तथैव । ta १५
SR No.008405
Book TitleAnekantajay patakakhyam Prakaranam Part 1
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherOriental Research Institute Vadodra
Publication Year1940
Total Pages453
LanguageSanskrit, English
ClassificationBook_Devnagari & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy