SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ अधिकारः] स्वोपशव्याख्यामुनिचन्द्रीयविवरणयुतम् २८१ (मूलम्) - आह-यथाऽसमाना अपीन्द्रियादयस्तथाखभावत्वाद् रूपज्ञानाचेककार्यकारिणस्तथैतेऽपि भावास्तथाविधसमानपरिणामविकला अपि तथाविधबुद्ध्यादिहेतवः किं नेष्यन्ते ? । उच्यते-असमानेभ्यः ५ समानवुद्ध्याद्यसिद्धेः, तन्निबन्धनखभाववैकल्यात् । तथाहि-न चक्षुरादिषु समानबुद्ध्यादिभावः, तथाऽप्रतीतेः, रूपज्ञानाद्येककार्यकारित्वं चात्रानर्थकमेव, सिद्धसाधनत्वात् । को हि नाम तथा असमानेभ्योऽपि तथैकं कार्य नेच्छति ? तथाविधसमानपरिणामविकलास्तु समानबुद्धि-शब्दद्वयप्रवृत्तिहेतवो न भवन्ति, न तथाविधैककार्या इत्यभिदधति विद्वांसः। ततश्चानेन न किञ्चिदुपद्रूयते, असमानेभ्यः समानबुख़्याद्यसिद्धेः॥ (स्वो० व्या०) आह-यथा असमाना अपीन्द्रियादयः-इन्द्रिय-मनस्कारा-ऽऽलोकरूपादयो जातिभेदेन तथास्वभावत्वात्-रूपादिज्ञानजननस्वभावत्वात् कारणात् १५ रूपज्ञानादि, 'आदि'शब्दात् स्वसन्तताविन्द्रियादिकार्यग्रहः । एतदेककार्यकारिणः तथैतेऽपि भावा:-घट-शरावो-ष्ट्रिको-दञ्चनादयः तथाविधसमानपरिणामविकला अपि, तात्त्विकसमानपरिणामरहिता अपीत्यर्थः, तथा. विधबुद्धयादिहेतवः-समानबुद्धि-शब्दद्वयहेतवः किं नेष्यन्ते ? । एतदाशङ्कयाह-उच्यते-असमानेभ्यो जातिभेदेन समानबुद्ध्यायसिद्धेः-२० समानबुद्धि-शब्दद्वयानुपपत्तेः । असिद्धिश्च तन्निबन्धनस्वभाववैकल्यात्-. समानबुझ्यादिनिबन्धनस्वभाववैकल्यात् । एतदेवाह-तथाहि-न चक्षुरादिषु विषयेषु समानबुद्ध्यादिभावो 'विषयत्वेन । कुत इत्याह-तथाऽप्रतीतेःचक्षुरादिषु विषयत्वेन समानबुद्ध्याचप्रतीतेः । नीलादिष्विव समानेष्विति व्यति-२५ रेकेण भावना । रूपज्ञानाद्येककार्यकारित्वं चात्र-व्यतिकरे अनर्थकमेव । कुत इत्याह-सिद्धसाधनत्वात् । एतदेवाह-को हि नामवादी तथा असमानेभ्योऽपि विशिष्ट समानपरिणामापेक्षया तथैकं कार्यसामग्रीजनकत्वेनैकं कार्य नेच्छति? तथाविधसमानपरिणामविकलाः पुनश्चक्षुरादयः समानबुद्धि-शब्दद्वयप्रवृत्तिहेतवो न भवन्ति, न तथाविधैककार्याः, तथाविधैककार्या भवन्त्येवेत्यर्थः, इत्यभिदधति विद्वांसः-३० १ 'यसिद्धिरिति' इति ग-पाठः । २ 'विषयित्वेन' इति ङ-पाठः । ३ 'तथाविधैककार्या भवन्त्ये.' इति घ-पाठः। अनेकान्त० ३६
SR No.008405
Book TitleAnekantajay patakakhyam Prakaranam Part 1
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherOriental Research Institute Vadodra
Publication Year1940
Total Pages453
LanguageSanskrit, English
ClassificationBook_Devnagari & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy