SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ अनेकान्तजयपताकाख्यं प्रकरणम् [तृतीयः (मूलम्) भाषनीयम् ॥ मलसामर्थ्यात् तदग्रहणम् , तदग्रहणमेव सर्वथैकत्वात्, अन्यथाऽस्य ग्रहणाग्रहणप्रसङ्गः, तथा च सत्यस्मन्मतानु५वाद एव, गृह्यमाणागृह्यमाणयोरेकत्वविरोधात् । इति तच्चित्रतयैव कथञ्चित् तद्रहणादेकस्याप्यनेकप्रमातृभिरवसायः, नान्यथा, उक्तदोषानतिवृत्तरित्यलं प्रसङ्गेन ॥ यच्चोक्तम-'किश्च विकल्पात्मकत्वेऽस्य निश्चयात्मकमिदमित्यनेकप्रमाणवादहानिः, तेनैव वस्तुनो निश्चयात् , नित्यत्वादी भ्रान्त्यनु१० पपत्तेः। अनेकधर्मके वस्तुनि अन्यतरधर्मनिश्चयात् तदन्यनिश्चयाय प्रमाणान्तरसाफल्यमिति चेत्' इत्याशय 'न, एकधर्मविशिष्टस्यापि निश्चये सर्वधर्मवत्तया निश्चयात्, प्रमाणान्तरस्य निश्चितमेव विषयीकुर्वतः स्मृतिरूपानतिक्रमात्, एकधर्मद्वारेणापि तद्वतो निश्चया. त्मना प्रत्यक्षेण विषयीकरणे सकलधर्मोपकारकशक्त्यभिन्नात्मनो ५निश्चयात्' इत्यादि, तदप्ययुक्तम्। छद्मस्थज्ञानस्येत्थमप्रवृत्तेः, ज्ञेय (स्वो० व्या०) पराभिप्रायमाह-मलसामर्थ्याद् हेतोः तदग्रहणं-अपरावसायाख्यावध्यग्रहणम् । एतदाशङ्कयाह-तदग्रहणमेव तस्य-अधिकृतस्वभावस्याग्रहणमेव । कुत इत्याह-सर्वथैकत्वात् , एक एव ह्यसौ तदपरावसायजननस्वभाव इति, तदग्रहणेऽ२० ग्रहणमिति गर्भः । इत्थं चैतदङ्गीकर्तव्यमित्याह-अन्यथा-एवमनभ्युपगमे तदवधिग्रहणानभ्युपगमेऽस्य-स्वभावस्य ग्रहणाग्रहणप्रसङ्गः, सामान्येन ग्रहणादवधिमत्तयाऽग्रहणात् । यदि नामैवं ततः किमित्याह-तथा च सति-एवं च सति अस्मन्मतानुवाद एव तच्चित्रताविधानेन, अत एवाह-गृह्यमाणागृह्यमाणयोः धर्मयोरेकत्वविरोधात् । इति-एवं तचित्रतयैव-स्वभावचित्रतयैव कथ२५श्चित्-केनचित् प्रकारेण तद्ग्रहणात्-अधिकृतस्वभावग्रहणात् एकस्यापि वस्तुनः सामान्येन अनेकप्रमातृभिरवसायः, नान्यथा । कुत इत्याहउक्तदोषानतिवृत्तेः-'ततस्तयोरक्य'मित्याधुंक्तदोषानतिवृत्तेरित्यलं प्रसङ्गेनेति ॥ यचोक्तं पूर्वपक्षे-'किञ्च विकल्पात्मकत्वेऽस्येत्यादि यावदेकधर्मद्वारे.. णापि तद्वतो निश्चयात्मना प्रत्यक्षेण विषयीकरणे सकलधर्मोपकार३० कशत्तयभिन्नात्मनो निश्चयात्' इत्यादि, तदप्ययुक्तम् । कुत इत्याह १ 'नान्यथा, इत्युक्तदोषा.' इति घ-पाठः। २ १४२ तमे पृष्ठे १४३ तमे च। ३ द्रष्टव्यं १९४ तमे पृष्ठे। ४ १४२ तमे पृष्ठे १४३ तमे च ।
SR No.008405
Book TitleAnekantajay patakakhyam Prakaranam Part 1
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherOriental Research Institute Vadodra
Publication Year1940
Total Pages453
LanguageSanskrit, English
ClassificationBook_Devnagari & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy