SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ अधिकारः ] स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम् (मूलम् ) अन्योन्यमिति यद्भेदं व्यासिवाह विपर्ययम् । भेदाभेदे द्वयोस्तस्मादन्योन्यव्याप्तिसम्भवः ॥ एवं शबलरूपेऽस्मिन् व्यावृत्त्यनुगमावपि । स्याद्वादनीतितः सिद्धौ तथाऽनुभवसुस्थितौ ॥" इत्थं प्रमाणसिद्धेऽस्मिन् विरोधोद्भावनं नृणाम् । व्यसनं धीजडत्वं वा प्रकाशयति केवलम् ॥ इत्यलं विस्तरेण || नित्यानित्यवस्त्वधिकारः समाप्तः ॥ ( स्वो० व्या० ) अनुपपत्तिश्चान्योन्यमिति यद्भेदं व्याप्तिश्चाह - विपर्ययम् अभेदम् यस्मादेवं भेदाभेदे द्वयोस्तस्मादन्योन्यव्याप्तिसम्भवः ॥ १-२ अनुष्टुप् । इत्यधिको घ-पाठः । १३३ एवं जात्यन्तरात्मकभेदाभेदविकल्पसिद्ध्या शबलरूपेऽस्मिन् वस्तुनि व्यावृत्त्यनुगमावपि स्याद्वादनीतितः सिद्धौ । तथा - तच्चित्रभावतयाऽनुभवसु- १५ स्थिती - व्यावृत्त्यनुगमानुभव सुस्थिताविति निदर्शितमेतत् ॥ इत्थम् - एवं प्रमाणसिद्धेऽस्मिन् भेदाभेदे विरोधोद्भावनं नृणाम् किं करोतीत्याह - व्यसनं धीजडत्वं वा प्रकाशयति केवलम् न किञ्चिदन्यत् । इत्यलं विस्तरेण इति पूर्वपक्षोपन्यस्तस्य समस्तस्यैव निराकृतत्वात् ॥ 5 इति नित्यानित्यवस्त्वधिकारः समाप्तः ॥ ३ 'नृणाम्' इति क - पाठः । ६ 'नृणाम्' इति क- पाठः । १० ४ अनुष्टुप् । ५ ' इति द्वितीयः परिच्छेदः' २०
SR No.008405
Book TitleAnekantajay patakakhyam Prakaranam Part 1
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherOriental Research Institute Vadodra
Publication Year1940
Total Pages453
LanguageSanskrit, English
ClassificationBook_Devnagari & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy