SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ अधिकारः] खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम् (मूलम्) निबन्धनाभावतो यत्किञ्चिदेतत् ॥ एवं च तदतिरिक्तोत्पत्त्यभावादविशिष्टभवनानन्तरमभवनमिति प्राप्तम् । तथा च सति क्षणिकत्वेऽप्यनिश्चयः, तत्कादाचित्कतया तु ५ तदुत्पत्त्याद्यपरिहृतमेव । न नश्वरमभवनम् ,तुच्छत्वादिति चेत्, भवनेऽप्यतुच्छतया समानमेतत् । न समानम् , तस्य अभवनविरोधात्। अभवनस्य भवने को विरोधः?। नीरूपस्य सरूपतापत्तिरिति चेत् . सरूपस्य कथं नीरूपतापत्तिरिति वाच्यम् । खहेतोस्तत्वभावत्वात् (खो व्या०) निबन्धनाभावतः कारणाद् यत्किञ्चिदेतद् यदुत तदेकक्षणभवनखभावमिति ॥ एवं चेत्यादि । एवं च-उक्तनीत्या तदतिरिक्तोत्पत्त्यभावात्-भवनातिरिक्तोत्पत्त्यभावात् अविशिष्टभवनानन्तरमभवनमिति प्राप्तं न्यायतः । तथा च सति किमित्याह-क्षणिकत्वेऽप्यनिश्चयः, अविशिष्टभवनमात्रसिद्धः तत्कादाचित्कतया तु-अभवनकादाचित्कतया तु तदनन्तरभावेन तदुत्पत्त्यादि १५ अभवनोत्पत्तिनाशोत्तरोन्मज्जनाख्यम् अपरिहृतमेव, उक्तनीतितादवस्थ्यादिति ॥ पराभिप्रायमाह-नेत्यादि । न नश्वरमभवनं भवनान्तरमपि भवतु । कुत इत्याह-तुच्छत्वात्-निःस्वभावत्वात् । इति चेत्, एतदाशङ्कयाह-भवनेऽप्यतुच्छतया सत्स्वभावत्वेन समानमेतत्-अनश्वरत्वम् । न समानम् , तस्यभवनस्य अभवनविरोधात् कारणात् । एतदाशङ्कयाह-अभवनस्य भवने २० को विरोधः ?। नीरूपस्य अभवनस्य सरूपतापत्तिविरोधः । इति चेत्, एतदाशङ्याह-सरूपस्य भवनस्य कथं नीरूपतापत्तिरिति-एतद् वाच्यम् , समानमेतदित्यभिप्रायः । न समानमित्यावेदयति स्वहेतोरित्यादिना । खहेतोः सकाशात् तत्वभावभावात्-क्षणादूचं नीरूपताखभावोत्पादात् । (विवरणम् ) (४.५) तदतिरिक्तोत्पत्त्यभावादविशिष्टभवनानन्तरमभवनमिति प्राप्तमिति । तदतिरिक्तायाः-पदार्थातिरिक्ताया उत्पत्तेरभावात् , पदार्थ एवोत्पत्तिरित्यर्थः । किमित्याह-(अ)विशिष्टभवनानन्तरं क्षणिकमिति प्राप्तमिति विशेषणविकलसत्त्वमात्रानन्तरं अभवनमिति प्राप्तम् ॥ (१४) क्षणिकत्वेऽप्यनिश्चय इति । अविशिष्टभवनमानसिद्धेः क्षणिकमिदमिति ३० प्रागुक्तयुक्तरेव निश्चेतुमशक्यतयेत्यर्थः ॥ १ 'भवत् । कुत' इति घ-ङ-पाठः । २ 'क्षणिकमिति विशेषण' इति च-पाठः । ३ विकलमात्रानन्तरे' इति च-पाठः ।
SR No.008405
Book TitleAnekantajay patakakhyam Prakaranam Part 1
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherOriental Research Institute Vadodra
Publication Year1940
Total Pages453
LanguageSanskrit, English
ClassificationBook_Devnagari & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy