________________
१०७
अधिकारः] स्वोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम्) उभयत्र तदतिरिक्तक्रियाऽभावात्, सत्खभावादिजन्याजन्यकत्वेन हेत्वयोगतोऽहेतुत्वापत्तेश्च ।।
न चायं भवनक्रियाप्रतिषेधो ज्यायान् , विकल्पानुपपत्तेः । स ५ । हि भवनखभावस्याभवनखभावस्य वा क्रियेत । न तावद् भवनखभावस्य, अशक्यत्वात्; अन्यथा भवनखभावत्वविरोधात् । अभवनस्वभावभवनक्रियाप्रतिषेधेतु प्रयासवैयर्थ्य भवनापत्तिति,
(स्त्रो० व्या०) आह-उभयत्र-भवनेऽभवने च तदतिरिक्तक्रियाऽभावात्-भवनाभवनाति-१० रिक्तक्रियाऽभावात् । अभवनस्य नाशत्वेन हेत्वयोग इत्येतदपि समानमित्यभिधातुमाह-सत्वभावादिजन्याजनकत्वेन कारणेन हेत्वयोगतः कारणात् अहेतुकत्वापत्तेश्च भवनस्य, उत्पत्त्याद्यभाव इति क्रियायोगः । तथाहि-भवनं 'जन्योत्पादस्तस्यापि हेतुर्न युज्यते एवेति स हि सत्स्वभावजन्यजनकः, असत्स्वभावजन्यजनकः, उभयस्वभावजन्यजनकः, अनुभयस्वभावजन्यजनको वा भवेत् । १५ सर्वथाऽपि दोषः। यदि सत्स्वभावं जन्यम् , कथं तजनकः? । अथासत्स्वभावमेव तत् तथापि कथं तज्जनकः ? । उभयस्वभावत्वे विरोधः। अनुभयस्वभावत्वे अवस्तुता इत्युत्पादहेत्वभाव इति भावनीयम् ।।
दोषान्तरमाह-न चायमित्यादि । न चायं भवनक्रियाप्रतिषेधो ज्यायान्शोभनः । कुत इत्याह-विकल्पानुपपत्तेः कारणात् । एनामेवाह स हीत्या-२० दिना। स यस्माद् भवनक्रियाप्रतिषेधो भवनखभावस्य सतोऽभवनखभावस्य वा क्रियेत । किश्चातः१ । उभयथाऽपि दोष इत्याह-न तावद् भवनवभावस्य भवनक्रियाप्रतिषेधः। कुत इत्याह अशक्यत्वात् , भवनखभावस्य तत्त्वं निषेद्धुमशक्यमिति । अत एवाह-अन्यथा भवनस्वभावत्वविरोधात्, न तक्रियानिषेध इति । अभवनखभावभवनक्रियाप्रतिषेधे तु अभ्युपगम्यमाने २५ प्रयासवैयर्थ्यम् , यतो नाभवनस्वभावं भवनमिति । तथा भवनापत्तिर्वति
(विवरणम् ) (२६) नाभवनस्वभावं भवनमिति । भवनमिति हि शब्दः सत्त्वमाह, अभवन मिति तु तद्विपर्ययम्, ततो न-नैवाभवनं स्वभावं-तुच्छरूपं भवनं सत्त्वं भवति, किन्त्वभवनस्वभावमभवनमेव भवति । एवं चैकान्ततुच्छाभवनस्य प्रतिषेधे ३० केवलतुषखण्डनवत् प्रयासवैयर्थ्यमेव, स्वयमेव तत्र प्रतिषेधस्य सिद्धत्वात् ॥ . १ 'कलोपपत्तेश्च' इति ग-पाठः । २ 'जन्येत्यादः' इति क-पाठः । ३ “प्रतिषेधाभवन.' इति कपाठः। ४ 'नाभावनखभावं भवन मिति' इति ख-पाठः। ५ 'कण्डनवत्'च-पाठः।