SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ अधिकारः] खोपडव्याल्यामुनिचन्द्रीयविवरणवुतम् (मूलम्) हन्त तर्हि येनैव खभावेन करोति तेनैव न करोतीत्येतदापन्नम्। एवं चाभिन्ननिमित्तत्वे सत्येकत्र कर्तृत्वाकर्तृत्वयोर्विरोध इति । तथाहितेनैव खभावेन करोति, न करोति चेति व्याहतमेतत् , एकस्वभाव- ५ स्यैकत्रैवोपयोगात् । कार्यान्तराकर्तृत्वं तत्र परिकल्पितमिति चेत्, एतदप्यमनोहरम् । कुतः कार्यान्तराकर्तृत्वस्य तत्र परिकल्पितत्वाद् वस्तुतोऽसत्त्वात् तद्भावापत्त्या कार्यान्तरभावप्रसङ्गात् ॥ अथाशङ्का-खकार्यकर्तृत्वव्यतिरिक्त कार्यान्तराकर्तृत्वं परिकल्पितं खकार्यकर्तृत्वमेव पुनः कार्यान्तराकर्तृत्वस्वभावमभ्युपगम्यत १० इति । एषाऽप्ययुक्ता, दत्तोत्तरत्वात् । तथाहि-येनैव स्वभावेन करोति तेनैव न करोतीत्येतदापन्नमित्यादि तदेवावर्तते । अनेनैव (स्वो० व्या०) कर्तृत्वमिति-एवं च तदेकमेवेत्यभिप्रायः । एतदाशङ्कयाह-हन्त तर्हि येनैव खभावेन करोति तेनैव न करोतीत्येतदापन्नम् अर्थतः । एवं चाभिन्ननिमित्तत्वे सत्येकत्र कर्तृत्वाकर्तृत्वयोर्विरोध इति । एतद्भावनायैवाहतथाहि तेनैव खभावेन करोति, न करोति चेति व्याहतमेतत् । कुत इत्याह-एकखभावस्यैकत्रैवोपयोगात्, अन्यथा सर्वथैकत्वायोगः । कार्यान्तराकर्तृत्वं तत्र-कारणे परिकल्पितमिति चेत्, एतदप्यमनोहरम् । कुत इत्याह-कार्यान्तराकर्तृत्वस्य तत्र-कारणे परिकल्पितत्वात् २० कारणात् , अत एव वस्तुतोऽसत्त्वात्-अविद्यमानत्वात् कार्यान्तराकर्तृत्वस्य तद्भावापत्त्या कार्यान्तरकर्तृत्वमावापत्त्या। किमित्याह-कार्यान्तरभावप्रसङ्गात् न हि तद्भावमन्तरेण तदमाव इति भावना ॥ - अथाशङ्का परस्य-खकार्यकर्तृत्वव्यतिरिक्तं कार्यान्तराकर्तृत्वं परिकल्पितं स्वकार्यकर्तृत्वमेव पुनः कार्यान्तराकर्तृत्वस्वभावमभ्युप-२५ गम्यत इति । एतदाशङ्कयाह-एषाऽप्ययुक्ता आशङ्का । कुत इत्याह-दत्तोत्तरत्वात्। एतदेव भावयति तथाहीत्यादिना । तथाहि येनैव स्वभावेन करोति तेनैव न करोतीत्येतदापन्नमित्यादि पूर्वोक्तं तदेवावर्तते । अनेनैव (विवरणम्) (२३) न हि तद्भावमन्तरेण तदभाव इति । न-नैव हि[:]-यस्मात् तद्धावं-३० कार्यान्तरमावमन्तरेण-विना तदभावः कार्यान्तराकर्तृत्वाभावः। १ प्रेक्ष्यतां प्रथमा पङ्किः। २'एव च वस्तु.' इति -पाठः । अनेकान्त. १२
SR No.008405
Book TitleAnekantajay patakakhyam Prakaranam Part 1
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherOriental Research Institute Vadodra
Publication Year1940
Total Pages453
LanguageSanskrit, English
ClassificationBook_Devnagari & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy