SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ ०१ अधिकारः] खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम् (मूलम् ) श्वाभेदश्च' इत्याद्यपि निराकृतमेव । अन्योन्यव्याप्तितो जात्यन्तरात्मकत्वेन भेदाभेदपक्षे तदसम्भवात् केवलाकारानुपपत्तेः, इतरानुविद्धस्य च प्रश्नानहेत्वादिति ॥ __ यच्चोक्तम्-'किञ्च भेदाभेदमभ्युपगच्छता अवश्यमेवेदमङ्गीकर्तव्यम्-इह धर्मधर्मिणोधर्मधर्मितया भेदः, खभावतः पुनरभेदः' इत्यादि तदपि 'एकधर्मिप्रतिबद्धत्वेऽपि धर्माणां मिथो भेदाद् धर्मधर्मिभावेन भेदः 'मिथो भेदेऽपि चाशेषधर्माणां धर्मिणा व्याप्तेविशिष्टान्योन्यानुवेधतोऽभेदः" इत्यादिना प्रत्युक्तम् , प्रकारान्तरेण १० भेदाभेदसिद्धेः । तथा चोक्तम् "नाभेदो भेदरहितो भेदो वाऽभेदवर्जितः।। - केवलोऽस्ति यतस्तेन कुतस्तत्र विकल्पनम् ? ॥ (स्वो० व्या) तेनापि भेदश्चाभेदश्च' इत्याद्यपि पूर्वपक्षवचनं निराकृतमेव । कुत इत्याह-१५ अन्योन्यव्याप्तितो जात्यन्तरात्मकत्वेन भेदाभेदपक्षे तदसम्भवात् तस्य-अथ येनाप्याकारणेत्यादेविकल्पजातस्य असम्भवात्। उपपत्तिमाह-केवला- , कारानुपपत्तेः अनन्तरोदितभेदाभेदपक्षे इतरानुविद्धस्य च-भेदाकारानुविद्धस्य चाभेदाकारस्य प्रश्नानहत्वात् कैवल्याभावेन नरसिंहे सिंहप्रश्नतुल्यत्वादिति ॥ . यञ्चोक्तं पूर्वपक्षग्रन्थे -'किञ्च भेदाभेदमभ्युपगच्छता अवश्यमेवेद-२० मङ्गीकर्तव्यमिह धर्मधर्मिणोः धर्मधर्मितया भेदः, स्वभावतः पुनरभेदः' इत्यादि, तदपि 'एकधर्मिप्रतिवद्धत्वेऽपि धर्माणां मिथो भेदाद धर्मर्मिभावेन भेदः 'मिथो भेदेऽपि चाशेषधर्माणां धर्मिणा व्याप्तेविशिष्टान्योन्यानुवेधतोऽभेदः' इत्यादिना पूर्वोक्तेन प्रत्युक्तम् । कथमित्याह-प्रकारान्तरेण-अन्योन्यानुवेधलक्षणेन भेदाभेदसिद्धेः । तथा चोक्तं २५ वृद्धैः-नाभेदो धर्मधर्मिणोर्भेदरहितः, भेदो वा तयोरेव अभेदवर्जितः केवलोऽस्ति, यतस्तेन-कारणेन कुतस्तत्र-भेदेऽभेदे वा विकल्पनम् । .. १ अनेकान्तवादप्रवेशटिप्पनके द्वे पद्ये, यथाहि "न नरो नर एवेति न सिंहः सिंह एव वा । शब्दविज्ञानकार्याणां भेदाजात्यन्तरं हि तत् ॥ न नरः सिंहरूपत्वात् न सिंहो नररूपतः । सामानाधिकरण्येन नरसिंहः प्रतीतितः ॥" २ चतुर्दशे पृष्ठे । ३ समीक्ष्यतां ६६तमं पृष्ठम्। ४ प्रेक्ष्यतां ६७तम पृष्टम् । ५ वृद्धैरिति । ६ अनुष्टुप् । ७ एसदर्थ प्रेक्ष्या त्रयोदशं पृष्ठम् । ८ 'अनन्तरोदिते भेदाभेद.' इति हु-पाठः। ९ चतुर्दशे पृष्ठे । १. प्रेक्ष्यतां ६६तमं पृष्ठं ६७तमं च । ११ ‘मेदाभेदविकल्पेनं' इति -पाठः।
SR No.008405
Book TitleAnekantajay patakakhyam Prakaranam Part 1
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherOriental Research Institute Vadodra
Publication Year1940
Total Pages453
LanguageSanskrit, English
ClassificationBook_Devnagari & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy