SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ 'Vada ] Gaṇadharavāda 453 टीका--सातबेदनीयम्. शोधितमिथ्यात्वपुद्गलरूप सम्यक्त्वम् , हास्यम्, । पुरुषवेदः, रतिः, शुभायुः, नाम- गोत्राणि चेत्येतत सर्व पुण्यमभिधीयते । तत्र नारकायुवंजे शेषमायुस्त्रयं शुभम्, देवद्धिक यशः कीति--तीर्थकर नामाधाः सप्तत्रिंशत् प्रकृतयो नामकर्मणि शुभाः, गोत्रे पुनरुचैर्गोत्रं शुभम् । एताः षट्चत्वारिंशत् प्रकृतयः किल शुमत्वात् पुण्यम् । अन्ये तु मोहनीय मेदान् सर्वानपि जीवस्य विपर्यासहेतुत्वात् पापमेव मन्यते । ततः सम्यक्त्वहास्य-पुरुषवेद -रतिवर्जा द्विचत्वारिंशदेव प्रकृतय. पुण्यम् तद्यथा-- सायं उच्चागोयं नर-तिरि-देवाउयाइ तह नामे । देवदुगं मणुयदुर्ग पर्णिदजाई य तणुपणगं ।। १ ।। अंगोवंगाण तिगं पढमं संघयणमेव संठाणं । सुभवण्णाइचउकं अगुरुलहू तह य परघायं ॥ २॥ ऊसासं आयावं उज्जोय विहगगई वि य पसत्था । तस-बायर-पजत्तं पत्तेय थिरं सुभं सुभगे ॥ ३ ॥ मुस्सर आएज जसं निम्मिण तित्थयरमेव एयाओ। बायालं पगईओ पुण्णं ति जिणेहिं भणिआओ ॥ ४ ॥ मणितशेषास्तु या द्वयशीतिमा त्यस्तत् सर्वमशुभत्वात् पापं विज्ञेयम् । सम्यक्त्वं कथमशुभम्-कथं तत् पापम् ? इति चेत् । उच्यते रुचिरूपमेव हि सम्यक्त्वं शुभं तचेह न विचार्यते, किन्तु शोधितमिथ्यात्वपुद्ग्लरूपम्, तच शङ्कायनर्थहेतुत्वादशुभमेव, अशुमत्वाच पापम् । सम्यग्रुचेवातिशये. नानावारकत्वादुपचारमात्र एवेदं सम्यक्त्वमुच्यते, परमार्थतस्तु मिथ्यात्वमेवैतत् । इत्यलं प्रसङ्गेन । इदं च पुण्य-पापलक्षणमुमयमपि सविपाकमविपाकं च मन्तव्यम्-यथा बद्ध तथैव विपाकतः किश्चिद् वेद्यते, किश्चित्त मन्दरसं नीरसं वा कृत्वा प्रदेशोदयेनाविपाक वेद्यत इत्यर्थः। तदेवं पुण्यं पापं च भेदेन व्यवस्थाप्य निरस्तः संकीर्णपुण्य-पापपक्षः । इतश्चायमयुक्त:-सर्वस्यापि सन्मिश्रसुख-दुःखाख्यकार्यप्रसङ्गात् न चैतदस्ति, देवादीनां केवलमुखाधिक्यदर्शनात्, नारकादीनां केवलदुःखमाधुर्यनिर्णयात् । न च सर्वथा सन्मित्रैकरूपस्य हेतोरल्प-बहुत्वभेदेऽपि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.008004
Book TitleShraman Bhagvana Mahavira Part 3
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherParimal Publication
Publication Year1989
Total Pages586
LanguageEnglish, Sanskrit
ClassificationBook_English, Biography, History, & Religion
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy