SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Våda) Ganadharavada Yaccagamā viruddhāḥ paraspara'natopi samsayn-yuktak ! Sarvapramānarisayatito jivo'sti tato buddhih. 5 (1553) ] ___ Trans.-5. Furthermore, the agamas are mutually contra. dictory. Consequently, on that account, too, (your) doubt is justifiable. You, (therefore), believe that (the existence of ) the soul cannot be established by any of the pramānas. (1553) टीका-यतश्च तीथिकानां सम्बन्धिनः सर्वेऽप्यागमाः परस्परविरोधिनः खलु, अतोऽपि संशय एवात्मनो युक्तः, न तु निश्चयः,. तथाहिकेचिदागमा आत्मनो नास्तित्वमेव प्रतिपादयन्ति, यदाहु स्तिकाः "एतावानेव लोकोऽयं यावानिन्द्रियगोचरः। भद्रे ! वृकपदं पश्य यद् वदन्ति बहुश्रुताः ॥१॥” इत्यादि। भट्टोऽप्याह-"विज्ञानधन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति, न च प्रेत्यसज्ञाऽस्ति ।" सुगतस्त्वाह-" न रूपं भिक्षवः ! पुद्गलः" इत्यादि । आत्माऽस्तित्ववचनान्यप्यागमेषु श्रूयन्ते, तथा च वेदः-"न हि वै सशरीरस्य प्रिया-ऽप्रिययोरपहतिरस्ति, अशरीरं वा वसन्तं प्रियाऽप्रिये न स्पृशतः" इति; तथा, “अग्निहोत्रं जुहूयात् स्वर्गकार्मः” इत्यादि । कापिलागमे तु प्रतिपाद्यते--" अस्ति पुरुषोऽकर्ता निर्गुणो भोक्ता चिद्रूपः" इत्यादि । तस्मादागमानां परस्परविरुद्धत्वाद् नागमप्रमाणादप्यात्मसखसिद्धिः। इदं च वैशेषिकमतेन प्रत्यक्षा-ऽनुमाना-ऽऽगमलक्षणं प्रमाणत्रयमुपन्यस्तम् । एतच्च स्वयं द्रष्टव्यम्-उपमाप्रमाणगम्योऽपि जीवो न भवति । तत्र हि "यथा गौस्तथा गवयः । इत्यादावेव सादृश्यमसनिकृष्टेऽर्थे बुद्धिमुत्पादयति । न घेहान्यः कश्चित् त्रिभुवनेऽप्यात्मसदृशः पदार्थोऽस्ति, यद्दर्शनादात्मानमवगच्छामः । काला-ऽऽकाश-दिगादयो जीवतुल्या विद्यन्त इति चेत् । न, तेषामपि विवादास्पदीभूतत्वेन तदंहिबद्धत्वात् । अपत्तिसाध्योऽपि जीवो न भवति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.008004
Book TitleShraman Bhagvana Mahavira Part 3
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherParimal Publication
Publication Year1989
Total Pages586
LanguageEnglish, Sanskrit
ClassificationBook_English, Biography, History, & Religion
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy