________________
सम्पादकीयम्
संस्कृते जगति न कोऽपि तादृशो मनुष्यो भवेद् यो महाकविकालिदासस्य नाम्नानभिज्ञः स्याद् । अस्य महाकवेः संस्कृतक्षेत्रे विशिष्य साहित्यक्षेत्रे गरीयता सर्वसम्मता, अबाधिता च वर्तते। आख्यायिकायां श्रूयतेऽनेन स्वपत्न्या उक्तस्य “अस्ति कश्चिद् वाग्विशेषः ” इति वाक्यस्य आद्यपदत्रयमादाय क्रमेण कुमारसम्भवमहाकाव्यम्, मेघदूतम्, रघुवंशमहाकाव्यञ्च निर्मितम् । अस्य महाकवेः इतोऽपि ऋतुसंहारम्, विक्रमोर्वशीयम्, मालविकाग्निमित्रम्, अभिज्ञानशाकुन्तलमिति सुप्रसिद्धं साहित्यं वर्तते।
कवेः क्रान्तदर्शित्वात् तल्लिखितवाङ्मयस्य यथार्थोद्घाटनाय टीकाकाराः टीकाग्रन्थं निर्मितवन्तः । प्रकृते रघुवंशमहाकाव्यस्योपरि यद्यपि नैकाः टीकाग्रन्थाः प्रसिद्धाः तथापि हस्तप्रतिषु नैका ग्रन्थाः तथैव अप्रकाशिताः सन्ति। तेष्वेवेयम् आद्यश्लोकात्मिका एका अज्ञातकर्तृका टीका वर्तते । अस्यां टीकाकारेण आकाङ्क्षापद्धत्या टीकार्थः कृतः । हरिहरानुयायिनोः विरोधात् उभयमतानुसारेण श्लोकार्थः कृतः । संस्कृतभाषाया इदमेकं वैभवं ग्रन्थकारेण निरूपितम्।
हस्तप्रतेः समावेशो मध्यमवर्गे भवति अस्पष्टताया: । एकपत्रात्मिका एकैव हस्तप्रतिः वर्तते। तस्मात् पाठभेदादेरनवसरः। अनावश्यकपाठः{} अस्मिन् धनुराकारे कोष्ठे स्थापितः । लेखकानवधानाद् याः व्याकरणक्षतयः ताः निष्कासिताः। यथायथं चिह्नानामपि उपयोगः कृतः। यद्यपि टीकासहितः प्रसिद्धोऽयं ग्रन्थः तथापि एनां लघुकृतिं दृष्ट्वा अधिकाधिकाध्येतॄणां हस्तप्रतिषु विद्यमानं यद् विशालम् अप्रकाशितं संस्कृतं वाङ्मयं तत्र प्रवृत्तिर्भवतु इति प्रयोजनम्। संशोधितेऽस्मिन् ग्रन्थेऽज्ञानाद् दृष्टिदोषाद्वा या अशुद्धयः ताः पाठकैः सहर्षं सूचनीया इति प्रार्थयते
विदुषामनुचरः अतुल ज्ञानोबा मस्के