SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ श्रीसङ्ग्रामसोनीविहितस्य बुद्धिसागरस्योपक्रमः ग्रन्थोऽयं यथार्थाभिधानो बुद्धिसागरो विपश्चितामुपदीक्रियमाणः गृह्यतां करकुशेशये कोविदैः । अस्मिन् हि ग्रन्थरत्ने श्रीमद्भिः सङ्ग्रामसिंहैः प्रकरणापराभिधानास्तरङ्गा निवेशिताश्चत्वारः, ते च क्रमेण धर्मनयव्यवहारप्रकीर्णकाख्याः। यद्यपि लघुतमोऽयं ग्रन्थस्तथापि चाणक्यकामन्दक्यादिनीतिशास्त्राणामिव शिशूनां व्यवहारपरायणानां चातीव उपयुक्त इति मुद्रणमस्यादृतं संस्थयाऽनया। यथायथं लोकोपयोगिनः सर्वेऽपि विषया अस्मिन् निवेशिता इति ग्रन्थः पाठोपयुक्तोऽयम्। कर्ता चास्यालावदीनसत्कसाङ्गणान्वयी श्रीनरदेवतनूजः सङ्ग्रामसिंहो मालवाधिपमहमूदभाण्डागारिको येन श्रीमक्षीपार्श्वचैत्यं समुदधे । कृतिश्चास्य निजामजययात्रायां प्रतिष्ठानपुरे इति स्पष्टं प्रशस्तावस्य । १९९३ वैशाख शुक्ला १३ १. मुद्रिताया आवृत्तेरुपोद्घातः । निवेदका आनन्दसागरा:
SR No.007785
Book TitleBuddhisagar
Original Sutra AuthorN/A
AuthorSangramsinh Soni
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2016
Total Pages130
LanguageHindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy