SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ जैनतर्कभाषा। शक्यत्वात् । शतृशानशौ सदित्यादौ साङ्केतिकपदेनापि क्रमेणार्थद्वयबोधनात् । अन्यतरस्वादिना कथञ्चिदुभयबोधनेऽपि प्रातिस्विकरूपेणैकपदादुभयबोधस्य ब्रह्मणापि दुरुपपादत्वात् । स्यादस्त्येव स्यादवक्तव्यमेवेति विधिकल्पनया युगपद्विधिनिषेधकल्पनया च पञ्चमः । स्यानास्त्येव स्यादवक्तव्यमेवेति निषेधकल्पनया युगपद्विधिनिषेधकल्पनया 5 च षष्ठः । स्यादस्त्येव स्यानात्स्येव स्यादवक्तव्यमेवेति विधिनिषेधकल्पनया युगपद्विधिनिषेधकल्पनया च सप्तम इति । ६४. सेयं सप्तमङ्गी प्रतिभङ्ग(ज) सकलादेशस्वभावा विकलादेशस्वभावा च । तत्र प्रमाणप्रतिपनानन्तधर्मात्मकवस्तुनः कालादिभिरभेदवृत्तिप्राधान्यादभेदोपचाराद्वा योगपद्येन प्रतिपादकं वचः सकलादेशः । नयविषयीकृतस्य वस्तुधर्मस्य भेदवृत्तिप्राधा10 न्याझेदोपचारादा क्रमेणाभिधायकं वाक्यं विकलादेशः । ननु कः क्रमः, किं वा योगपद्यम् ? । उच्यते-यदास्तिस्वादिधर्माणां कालादिभिर्भेदविवक्षा तदैकशब्दस्यानेकार्थप्रत्यायने शक्यभावात् क्रमः। यदा तु तेषामेव धर्माणां कालादिभिरभेदेन वृत्तमात्मरूपमुच्यते तदैकेनापि शब्देनैकधर्मप्रत्यायनमुखेन तदात्मकतामापनस्यानेकाशेषरूप स्य वस्तुनः प्रतिपादनसम्भवाद्योगपद्यम् । 15६६५. के पुनः कालादयः १। उच्यते-काल आत्मरूपमर्थः सम्बन्ध उपकारः गुणिदेशः संसर्गः शब्द इत्यष्टौ । तत्र स्याजीवादि वस्त्वस्त्येवेत्यत्र यत्कालमस्तित्वं त्वत्(तत्)कालाः शेषानन्तधर्मा वस्तुन्येकडेति तेषां कालेनाभेदवृत्तिः। यदेव चास्ति. त्वस्य तद्गुणत्वमात्मरूपं तदेवान्यानन्तगुणानामपीत्यात्मरूपेणामेदवृत्तिः । य एव चाधारे(रो)ऽर्थो द्रव्याख्योऽस्तित्वस्य स एवान्यपर्यायाणामित्यर्थेनाभेदवृत्तिः । य एव 20 चाविष्वग्भावः सम्बन्धोऽस्तित्वस्य स एवान्येषामिति सम्बन्धेनाभेदवृत्तिः । य एष चोपकारोऽस्तित्वेन स्वानुरक्तत्वकरणं स एवान्येरपीत्युपकारेणाभेदवृत्तिः । य एवं गुणिनः सम्बन्धी देशः क्षेत्रलक्षणोऽस्तित्वस्य स एवान्येषामिति गुणिदेशेना भेदवृत्तिः । य एव चैकवस्त्वात्मनाऽस्तित्वस्य संसर्गः स एवान्येषामिति संसर्गेणाभेदवृत्तिः। गुणीभूत भेदादभेदप्रधानात् सम्बन्धाद्विपर्ययेण संसर्गस्य भेदः । य एव चास्तीति शब्दोऽस्ति25 त्वधर्मात्मकस्य वस्तुनो वाचकः स एवाशेषानन्तधर्मात्मकस्यापीति शब्देनाभेदवृत्तिः, पर्यायार्थिकनयगुणभावेन द्रव्यार्थिकनयप्राधान्यादुपपद्यते । द्रव्यार्थिकगुणभावेन पर्यायार्थिकप्राधान्ये तु न गुणानामभेदवत्तिः सम्भवति, समकालमेकत्र नानागुणानामसम्भवात् , सम्भवे वा तदाश्रयस्य मेदप्रसङ्गात् । नानागुणानां सम्बन्धिन आत्मरूपस्य च मिन्नत्वात् , अन्यथा तेषां भेदविरोधात्, स्वाश्रयस्यार्थस्यापि नानात्वात् , अन्यथा 30 नानागुणाश्रयत्वविरोधात् । सम्बन्धस्य च सम्बन्धिभेदेन भेददर्शनात् , नानासम्बन्धि
SR No.007598
Book TitleJain Tark Bhasha
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherMotilal Banarasidas
Publication Year1973
Total Pages161
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy