SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ जैनतर्कभाषा त्वात् । बुद्धिरचेतनेत्यादौ च प्रसङ्गविपर्ययहेतोाप्तिसिद्धिनिबन्धनस्य विरुद्धधर्माध्यासस्य विपक्षबाधकप्रमाणस्यानुपस्थापनात् प्रसङ्गस्याप्यन्याय्यत्वमिति वदन्ति । ६४९. हेतुः साध्योपपत्यल्यथानुपपत्तिम्यां द्विधा प्रयोक्तव्यः, यथा पर्वतो वलिमान् , सत्येव वहौ धूमोपपत्तेः असत्यनुपपत्तेर्वा । अनयोरन्यतरप्रयोगेणैव साध्यप्रतिप5 सौ द्वितीयप्रयोगस्यैकत्रानुपयोगः।। ६५०. पक्षहेतुवचनलक्षणमवयवद्वयमेव च परप्रतिपयङ्गं न दृष्टान्तादिवचनम् , पक्षहेतुवचनादेव परप्रतिपत्तेः, प्रतिबन्धस्य तर्कत एव निर्णयात्, तत्मरणस्यापि पक्षहेतुदर्शनेनैव सिद्धेः, असमर्थितस्य दृष्टान्तादेः प्रतिपत्त्यनङ्गत्वात्तत्समर्थनेनैवान्यथासिद्धेश्च । समर्थनं हि हेतोरसिद्धत्वादिदोषाभिराकृत्य स्वसाध्येनाविनाभावसाधनम्, तत एव 10 परप्रतीत्युपपत्तौ किमपरप्रयासेनेति ?।। ६५१. मन्दमतींस्तु व्युत्पादयितुं दृष्टान्तादिप्रयोगोऽप्युपयुज्यते, तथाहि-यः खलु क्षयोपशमविशेषादेव निर्णीतपक्षो दृष्टान्तस्मार्यप्रतिबन्धग्राहकप्रमाणस्मरणनिपुणोऽपरावयवाभ्यूहनसमर्थश्च भवति, तं प्रति हेतुरेव प्रयोज्यः । यस्य तु नाचापि पक्ष निर्णयः तं प्रति पक्षोऽपि । यस्तु प्रतिबन्धग्राहिणः प्रमाणस्य न स्मरति, तं प्रति 15 दृष्टान्तोऽपि । यस्तु दार्टान्तिके हेतुं योजयितुं न जानीते, तं प्रत्युपनयोऽपि । एवमपि साकाक्षं प्रति च निगमनम् । पक्षादिस्वरूपविप्रतिपत्तिमन्तं प्रति च पक्षशुध्यादिकमपीति सोऽयं दशावयवो हेतुः पर्यवस्यति । [१९. हेतुप्रकाराणामुपदर्शनम् ।] ६५२. स चायं द्विविधः-विधिरूपः प्रतिषेधरूपश्च । तत्र विधिरूपो द्विविधः20 विधिसाधकः प्रतिषेधसाधकश्च । तत्रायः पोढा, तद्यथा-कश्चिन्याप्य एव, यथा शब्दोऽ. नित्यः प्रयत्ननान्तरीयकत्वादिति । यद्यपि व्याप्यो हेतुः सर्व एव, तथापि कार्याद्यनात्मव्याप्यस्यात् (त्र) ग्रहणाद्भेदः, वृक्षः शिंशपाया इत्यादेरप्यत्रैवान्तर्भावः । कश्चिकार्यरूपः, यथा पर्वतोऽयमनिमान् धूमवस्वान्यथानुपपत्तेरित्यत्र धूमः, धृमो ह्यग्ने कार्यभूतः तदभावेऽनुपपद्यमानोऽग्निं गमयति । कश्चित्कारणरूपः, यथा वृष्टिभविष्यति, 25 विशिष्टमेघान्यथानुपपत्तेरित्यत्र मेघविशेषः, स हि वर्षस्य कारणं स्वकार्यभृतं वर्ष गमयति । ननु कार्याभावेऽपि सम्भवत् कारणं न कार्यानुमापकम् , अत एव न वहिर्धमंगमयतीति चेत् सत्यम् । यस्मिन्सामाप्रतिबन्धः कारणान्तरसाकल्यं च निश्चेतुं शक्यते, तस्यैव कारणस्य कार्यानुमापकत्वात् । कश्चित् पूर्वचरः, यथा उदेष्यति शकटं कृत्तिको 1. Cf. Syadvadaratnakara, p. 554 2. Cf. Ibidi, p. 554-555 3. Cf. Ibid., p. 565
SR No.007598
Book TitleJain Tark Bhasha
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherMotilal Banarasidas
Publication Year1973
Total Pages161
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy