SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ [ ६१] ० यध्यानम्, एते चत्वारो भेदाः, ' रहितः' इति रूपिद्रव्यालम्वनरहितो निर्विकल्पचिन्मात्रसमाधिरूप इत्येवं 'एषः' योग: पश्चविधः ' तन्त्रे ' योगप्रधानशास्त्रे, प्रतिपादित इति शेषः, उक्तं च - " स्थानोर्यार्थालम्बनतदन्ययोगपरिभावनं सम्यक् । परतत्त्वयोजनमलं, योगाभ्यास इति समयेविदः || ” (पोड १३ - ४ ) इति । स्थानादिषु योगत्वं च " मोक्षकारणीभूतात्मव्यापारत्वं योगत्वम्” इति योगलक्षणयोगादनुपचरितमेव । यत्तु " यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि योगस्य " ( पातं० सू० २-२६ ) इति योगासन्त्वेन योगरूपता स्थानादिषु हेतुफलभावेनोपचारादभिधीयत इति पोडशकवृत्तावुक्तं तत् " चित्तवृत्तिनिरोधो योगः" (पा० यो० द० १-२ ) इति योगलक्षणाभिप्रायेणेति ध्येयम् । अत्र स्थानादिषु 'द्वयं' स्थानोर्णलक्षणं कर्मयोग एव, स्थानस्य साक्षादूर्यस्याप्युच्चार्यमाणस्यैव ग्रहणादुच्चारणांशे क्रियारूपत्वात् । तथा 'त्र्यं' अर्थालम्वननिरालम्बनलक्षणं ज्ञानयोगः, ' तु: ' " एवकारार्थ इति ज्ञानयोग एव, अर्थादीनां साचाद् ज्ञानरूपत्वात् ॥ २ ॥ एष कर्मयोगो ज्ञानयोगो वा कस्य भवतीति स्वामिचिन्तायामाह - २ ' तत्त्वविदः' इत्यपि ।
SR No.007442
Book TitleYogdarshan
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi
PublisherSukhlal Sanghavi
Publication Year
Total Pages232
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy