SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ ४८५ १११३२] प्रथमा प्रत्यक्षप्रस्ताव: __अनेकान्तम् अनेकस्वभावं वस्तु सुनिश्चितं सुविवेचितं पूर्वमेव न पुनर्विविच्यते । कैस्तदनेकान्तम् ? अनिश्चितैः अप्रत्यक्षविषयैः परैरुत्तरकालभाविभिः अपरैश्च पूर्वकालभाविभिः प्रदेशैः । ततः प्रत्यक्षं परोक्षश्च तत्तैरिति । स्यान्मतम्-उपादानोपादेयलक्षणसन्तानादन्यत् क्रमानेकान्तं परमाणुसमुदायादवय. व्यादेश्चार्थान्तरमक्रमानेकान्तमपि दुर्विवेचनमेवेति तत्राह सन्तानसमुदायादिशब्दमात्रविशेषतः ॥१३१॥ इति । सन्तानसमुदाययोः आदिशब्दादवयव्यादेश्च योगकल्पितस्य शब्द एव तन्मात्रम् तेनैव विशेषोऽनेकान्तान् नार्थतः, अनेकान्तस्यैव सन्तानादित्वात् ततः । [तथा सुनिश्चितस्तैः [तु] तत्त्वतो विप्रशंसतः।] तैः तथा सुनिश्चितः तत्त्वतो वस्तुतः विप्रशंसतः प्रशंसनमुपपादनं प्रशंसा १० तदभावो विप्रशंसम् , अर्थाभावेऽव्ययीभावात् ततः इति । एतदुक्तं भवति-एकत्वाभावे यथा दधिक्षणस्य तदुत्तरक्षणेनैकः सन्तानः तथा किन्न करभक्षणेनापि, यतो दधिभक्षणे चोदितः करभेऽपि न प्रवर्तत ? तस्यातत्कार्यत्वान्नेति चेत्; इतरस्य कुतस्तत्त्वम् ? तदनन्तरं नियमेन भावादिति चेत् ; न; तस्यापि तथैव भावात् । अनुपादेयत्वान्नेति चेत् ; इतरस्य कुतस्तदुपादेयत्वम् ? सादृश्यादिति चेत्, न; योगीतरज्ञानयोर. १५ प्येकसन्तानत्वापत्तेः, वस्तुतस्तस्याभावाच्च । कल्पनारोपितस्य करभक्षणेऽप्यनिवारणात् । तन्नैकत्वाभावे सन्तानः । नाप्यवयवी ; तस्याप्यवयवानामन्योन्याभेदरूपत्वेन तदभावेऽनुपपत्तेः । तेषा समु. दाय एवावयवी नाभेद इति चेत् ; सोऽपि यथैकव्यूहगतानामन्योन्यं तथा किन्न व्यूहान्तर. गतैरपि, यतो घटमानयेत्युक्ते पटेऽपि न प्रवर्तेत ? शक्तिसाधाभावादिति चेत्; विवक्षिता. नामपि तदेकरूपत्वे कथं भेदः तदन्यतमवत् ? वैधर्म्यस्यापि भावादिति चेत् ; साधर्म्यवैधर्म्ययोरिव किन्नावयवानामेव कथञ्चिदभेदो यतः स एवावयवी न भवेत् ? तन्नाभेदमनिच्छतो भिन्नेषु साधर्म्यस्यापि सम्भवो यतो व्यूहनियमः । तदुक्तम् "सन्तानः समुदायश्च साधर्म्यश्च निरङ्कशः । प्रेत्यभावश्च तत्सर्वं न स्यादेकखनिह्नवे ॥" [आप्तमी० श्लो० २९] इति । २० यच्च मतम्-उपादेयेनैवोपादानस्यैकसन्तानत्वं नान्येनेति ; तत्रोपादानमपि न प्रत्यभिज्ञानादन्यतः शक्यसमर्थनम् । ततोऽपि न मिथ्यार्थात् नापि सादृश्यार्थात ; अति. प्रसङ्गात् , अपि तु कथञ्चिद्वस्तुभूताभेदविषयादेव । ततः तत्समर्थनादप्यनेकान्तमेव सुनिश्चितमित्यावेदयन्नाह २१ 1-त वि-आ०,०प० । २ करभक्षणस्य । ३ “परमार्थतः सादृदयस्य सौगतैरनङ्गीकारादेवं वचनम्"-ता. टि०।४-न्तानसरवानन्ये आ., ब०,१०।
SR No.007279
Book TitleNyayvinischay Vivaran Part 01
Original Sutra AuthorVadirajsuri
AuthorMahendrakumar Jain
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages618
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy