SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ लोकसामान्याधिकारः। ४९ इति न्यायेन त्रिगुणश्रेणीछेदा एव घनलोकछेदा भवंति । " सपदे परसम" इति न्यायेन श्रेणिवर्गशलाका एव घनलोकवर्गशलाका भवंति॥१०९॥ ___ अथ " तम्मेत्तदुगे गुणे रासी” इति न्यायेनार्धच्छेदमात्रद्विकानामन्योन्याहतौ राशिना भवितव्यामित्यत्र साधिकछेदानां कथमित्यत्राह;विरलिदरासीदो पुण जेत्तियमेत्ताणि अहियरूवाणि । तेसिं अण्णोण्णहदी गुणगारो लद्धरासिस्स ॥ ११०॥ विरलितराशितः पुनः यावन्मात्राणि अधिकरूपाणि । तेषां अन्योन्यहतिः गुणकारो लब्धराशेः ॥ ११० ॥ विर । विरलितराशितः पुनर्यावन्मात्राण्यधिकरूपाणि तासां छेदाः तावन्मावद्विकानामन्योन्यहतिः लब्धपल्यराशेर्गुणकारो भवति । अंकसंदृष्टौ विरलितराशिः पल्यछेदः ४ तस्मादधिकरूपछेदः ३ तन्मात्रद्विकान्योन्याहतौ ८ लब्धः पल्यराशेः १६ गुणकारो भवति । तयोः गुण्यगुणकारयोर्गुणने सागरोपमः १२८ स्यात् ॥ ११० ॥ अथ प्रसंगेन हीनछेदानां किमित्याकांक्षायामाह;विरलिदरासीदो पुण जेत्तियमेत्ताणि हीणरूवाणि। तेसिं अण्णोण्णहदी हारो उप्पण्णरासिस्स ॥११॥ विरलितराशितः पुनः यावन्मात्राणि हीनरूपाणि । तेषामन्योन्यहतिः हार उत्पन्नराशेः ॥ १११ ॥ विरलिद । अस्यार्थः छायामात्रमेव ॥ १११ ॥ अथोत्तरप्रकरणस्य पातनिकागाथामाह;जगसेढीए वग्गो जगपदरं होदि तग्घणो लोगो। . इदि बोहियसंखाणस्सेत्तो पगदं परूवेमो ॥ ११२॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy