SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ ३९४ त्रिलोकसारे उक्तानां जिनभवनानां परिकरं गाथासप्तकेनाह;चउगोउरमणिसालति वीहिं पडि माणथंम णवथूहा । वणधयचेदियभूमी जिणभवणाणं च सब्वेसिं ॥ ९८३ ॥ चतुर्गोपुरमणिशालत्रयं वीथीं प्रति मानस्तंभा नवस्तूपाः । वनध्वजाचैत्यभूमयः जिनभवनानां च सर्वेषां ॥ ९८३ ॥ चड । सर्वेषां जिनभवनानां चतुर्गोपुरयुक्तमणिमयशालत्रयं प्रतिवीथ्येकैकमानस्तंभाः । नव नव स्तूपाश्च भवंति । तच्छालत्रयांतराले बाह्यादारभ्य क्रमेण वनध्वजचैत्यभूमयो भवति ॥ ९८३ ॥ जिणभवणे अट्ठसया गब्भगिहा रयणथंभवं तत्थ । देवच्छंदो हेमो दुगअडचउवासदीहुदओ ॥ ९८४ ॥ जिनभवनेषु अष्टशतानि गर्भगृहाणि रत्नस्तंभवान् तत्र । देवच्छंदो हैमः द्विकाष्टचतुर्व्यास दीर्घोदयः ॥ ९८४ ॥ जिण । तेषु जिनभवनेष्यष्टोत्तरशतप्रमितानि गर्भगृहाणि संति । तत्र जिनभवनमध्ये रत्नस्तंभवान् हेपमयद्विकाष्टचतुर्योजनव्या सदीर्घादयो देवच्छंदास्ति ॥ ९८४ ॥ सिंहासणादिसहिया विणीलकुंतल सुवज्जमयदंता । विद्दुमअहरा किसलयसोहायरहत्थपायतला ॥ ९८५ ॥ सिंहासनादिसहिता विनीलकुंतलाः सुवज्रमयदंताः । विदुमाधराः किसलयशोभाकरहस्तपादतलाः ।। ९८१ ॥ सिंहासणादि । सिंहासनादिसहिता विनीलकुंतलाः सुवज्रमयताः विद्रुमाधराः किसलयशोभाकर हस्तपादतलाः ॥ ९८५ ।। दसतालमाणलक्खणभरिया पेक्खंत इव वदंता वा । पुरुजिणतुंगा पडिमा रयणमया अट्ठअहियसया ॥ ९८६ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy