SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ नरतिर्यग्लोकाधिकारः। ३६९ vvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvr दुर्भावाशुचिसूतकपुष्पवतीजातिसंकरादिभिः। कृतदाना अपि कुपात्रेषु जीवाः कुनरेषु जायते ॥ ९२४ ॥ दुब्भाव । दुर्भावेनाशुच्या सूतकेन पुष्पवतीसंसर्गेण जातिसंकरादिभिश्च ये कृतदानाः ये कुपात्रेषु च कृतदानास्ते जीवाः कुनरेषु जायते ॥ ९२४ ॥ सांप्रतं धातकीखंडपुष्करार्धयोरेकप्रकारत्वादने वक्ष्यमाणक्षेत्रविभागहेतून तयोरुभयपार्श्वस्थितमिष्वाकारपर्वतानाह;चउरिसुगारा हेमा चउकूड सहस्तवास णिसहुदया। सगदीववासदीहा इगिइगिवसदी हु दक्खिणुत्तरदो९२५ चतुरिष्वाकारा हेमाः चतुःकुटाः सहस्रव्यासा निषधोदयाः । स्वकद्वीपव्यासदीर्घा एकैकवसतयः हि दक्षिणोत्तरतः ॥ ९२५ ॥ . चउ । धातकीखंडपुष्करार्धयोमिलित्वा हेममयाश्चतुःकूटाः सहस्रव्यासाः निषधोदया ४०० स्वकीयद्वीपव्यासदैर्ध्याः एकैकवसतयश्चत्वार इष्वाकारपर्वतास्तयो:पयोदक्षिणोत्तरतस्तिष्ठति ॥ ९२५ ॥ अथ तद्द्वीपद्वयावस्थितानां कुलगिरिप्रभृतीनां स्वरूपं निरूपयति;कुलगिरिवक्खारणदीदहवणकुंडाणि पुक्खरदलोत्ति । ओवेहुस्सेहसमा दुगुणा दुगुणा दु वित्थिण्णा ॥९२६॥ कुलगिरिवक्षारनदीद्रहवनकुंडानि पुष्करदल इति । अवगाधोत्सेधसमा द्विगुणा द्विगुणाः तु विस्तीर्णाः ॥९२६ ॥ कुल । धातकीखंडादारभ्य पुष्करार्धपर्यंतं तत्र तत्रस्थाः कुलगिरयः १२ वक्षाराः ४० नद्यः १८० ह्रदाः ५२ वनानि । कुंडानि १८० । एते सर्वे जंबूद्वीपस्थकुलगिरिप्रभृतीनामवगाधोत्सेधाभ्यां समानाः एतेषां विस्तारास्तु जंबूद्वीपस्थविस्तारेभ्यो द्विगुणद्विगुणाः ॥ ९२६ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy