SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ त्रिलोकसारे तत्थादि । तेषु कालेषु प्रथमकालस्यादौ जीवानामायुस्त्रिपल्योपमं तस्यांते द्विपल्यं एतदेव द्वितीयकालस्यादौ तस्यांते एकपल्यं एतदेव तृतीयकालस्यादौ तस्यांते पूर्वकोटिः एतदेव चतुर्थकालस्यादौ तस्यांते विंशत्यधिक शतं एतदेव पंचमकालस्यादौ तस्यांते विंशतिः एतदेव षष्ठकालस्यादौ तस्यांते पंचदश एताः सर्वाः संख्या वर्षाणां भवति ॥ ७८२ ॥ ___ तथा मनुष्योत्सेधमाह;-- तिदुगेककोसमुदयं पणसयचावं तु सत्त रदणी य । दुगमेकं चय रदणी छक्कालादिम्हि अंतम्हि ॥ ७८३ ॥ त्रिद्विकैवकोशमुदयः पंचशतचापं तु सप्तरत्नयः च । द्विकमेकं च रनि: षटालादौ अते ॥ ७८३ ॥ तिदु । प्रथमकालस्यादौ त्रिकोशमुदयः तस्यांते विक्रोशमुदयः स एव द्वितीयकालस्यादौ तस्यांते एकक्रोशमुदयः स एव तृतीयकालस्यादौ तस्यांते पंचशत ५०० चापोत्सेधः स एव चतुर्थकालस्यादौ तस्यांते सप्तरत्न्युत्सेधः स एव पंचमकालस्यादौ तस्यांते द्विरत्न्युदयः स एव षष्ठकालस्यादौ तस्यांते एकरत्न्युसेधः । एवं षट्रालानामादौ अंते च मानामुत्सेधो ज्ञातव्यः ॥ ७८३ ॥ अथ षट्रालवर्तिनां मर्त्यानां वर्णक्रमं निरूपयति;उदयरवी पुण्णिदू पियंगुसामा य पंचवण्णा य । लुक्खसरीरावण्णे धूमसियामा य छक्काले ॥ ७८४ ॥ उदयरवयः पूर्णेदवः प्रियंगुश्यामाश्च पंचवर्णाश्च । रूक्षशरीरावर्णाः धूमश्यामाः च षटाले ।। ७८४ ।। उदय । प्रथमकाले नराः उदयरविवर्णाः, द्वितीयकाले पूर्णेदुवर्णाः, तृतीयकाले प्रियंगुवर्णहरितश्यामवर्णाः, चतुर्थकाले पंचवर्णाः, पंचमकाले
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy