SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ २७६ त्रिलोकसारे तीर्थार्थसकल चक्रिणः षष्ठिशतं पृथक् वरेण अवरेण । विंशं विंशं सकले क्षेत्र सप्ततिशतं वरतः ॥ ६८१ ॥ तित्थद्ध । तीर्थकृतः अर्धचक्रिणः सकलचक्रिणश्च पृथक् पृथगुत्कृष्टेन षष्ठयुत्तरं शतं १६० जघन्येन ते सीतासीतोदयोदक्षिणोत्तरतटे एकैका इत्येका इत्येकमंदरापेक्षया चत्वार इति मिलित्वा पंचमंदर विदेहापेक्षयैव विंशतिविंशतिर्भवंति २० । ते च वरत उत्कृष्टतः पंचभरतपंचैरावतसमन्विते सकले क्षेत्रे सप्तत्युत्तरशतं १७० भवति ॥ ६८९ ॥ इदानीं चक्रिणः संपत्स्वरूपमाह; चुलसीदलक्ख भद्दिभ रहा हया बिगुणणवयकोडीओ । णवणिहि चोद्दसरयणं चक्कित्थी ओस हस्सछण्णउदी६८२ चतुरशीतिलक्षभद्रेभाः रथा हया द्विगुणनव कोट्यः । नवनिधयः चतुर्दशरत्नानि चक्रिस्त्रियः सहस्रं षण्णवतिः ॥ ६८२ ॥ - चुलसी । चतुरशीतिलक्षभद्रेभाः ८४००००० रथाश्व तावंतः ८४००००० या द्विगुणनवकोट्यः १८००००००० ऋतुयोग्यवस्तुदायी कालः, भाजनप्रदो महाकालः, धान्यप्रदः पांडुः, आयुधप्रदो माणवकः, तूर्यप्रदः शंखः, हर्म्यप्रदो नैसर्पः, वस्त्रप्रदः पद्मः, आमरणप्रद : पिंगलः, विविधरत्ननिकरप्रदो नानारत्नः इत्येते नवनिधयः । चक्रासिछत्रदंडमणि - चर्मकाकिणी गृहपतिसेनापतीभाइवतक्षयोषित्पुरोहिता इति चतुर्दशरत्नानि षण्णवतिसहस्रस्त्रियश्च ९६००० चक्रिणो भवति ॥ ६८२ ।। सांप्रतं राजाधिराजादीनां लक्षणं गाथात्रयेणाह ; - अण्णे सगपदविठिया सेणागणवणिजदंडवइमंती | महयरतलयरवण्णा चउरंगपुरोहमच्चमहमच्चा ॥ ६८३ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy