SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ २५० त्रिलोकसारे पंचशतं पंचशतसहितं पंचपंचाशतसहस्रकं सहस्राणां । अष्टाविंशतिरितरेषां सहस्रगाधस्तु मेरूणाम् ॥ १०९ ॥ पणसय । पंचशतयोजनानि ५०० पंचशतसहित पंचपंचाशत्सहस्रयोजनानि ५५५०० अष्टाविंशतिसहस्रयोजनानि २८००० इतरेषां मेरूणां वनावनांतराणि पंचानां मेरूणां सहस्रयोजनावगाधो १०००ज्ञातव्यः।६०९। ___ अथ तेषां वनानां विस्तारं निरूपयति;--- बावीसं च सहस्सा पणपणछक्कोणपणसयं वासं । पढमवणं वज्जित्ता सव्वणगाणं वणाणि सरिसाणि६१० द्वाविंशतिः च सहस्रं पंचपंचषट्कोनपंचशतं व्यासं । प्रथमवनं वयित्वा सर्वनगानां वनानि सदृशानि ॥ ६१० ॥ बावीसं । सुदर्शनमेरोभद्रशालवनं पूर्वापरेण द्वाविंशतिसहस्रयोजनव्यासं, नंदनं पंचशतयोजनव्यासं, सौमनसं पंचशतयोजनव्यासं, पांडुकं षडूनपंचशतयोजनव्यासं ४९४ । सुदर्शनस्य प्रथमवनं वर्जयित्वा सर्वमेरूणां नंदनानि सदृशप्रमाणानि ॥ ६१० ॥ अथ तद्वनचतुष्टयस्थितचैत्यालयसंख्यामाह;एक्ककवणे पडिदिसमेकेक्कजिणालया सुसोहंति । पडिमेरुमुवरि तेसिं वण्णणमणुवण्णइस्सामि ॥६११॥ एकैकवने प्रतिदिशमेकैकजिनालयाः सुशोभते । प्रतिमेरुमुपरि तेषां वर्णनमनुवर्णयिष्यामि ॥ ६११ ॥ एक्के । प्रतिमेरु एकैकस्मिन् वने प्रतिदिशमेकैकजिनालयाः सुशोभते । उपरि तेषां चैत्यालयानां वर्णनमनु पश्चानंदीश्वरपिवर्णनावसरे वर्णयिष्यामि ॥ ६११॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy