SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ ज्योतिर्लोकाधिकारः। अथ तेषां विमाननामानि गाथाद्वये कथयति;-. इंदहियं विमाणं सगसगकप्पं तु तस्स चउपासे । वेलुरियरजतसोकं मिसक्कसारं तु पुवादी॥ ४८४ ।। इंद्रस्थितं विमानं स्वकस्वककल्पं तु तस्य चतुःपावें । वैडूर्यरजताशोकं मृषत्कसारं तु पूर्वादिषु ॥ ४८४ ॥ इंडियं । इन्द्रस्थितं विमानं स्वकीयस्वकीयकल्पाख्यकं तु पुनः तस्य चतुःपार्श्वेः वैडूर्यरजताशोकमृषत्कसाराख्यविमानानि पूर्वादिदिक्षु तिष्ठन्ति । अयं विधिः सर्वेषां दक्षिणेन्द्राणां ॥ ४८४ ॥ -- रुचकं मंदरसोकं सत्तच्छदणामयं विमाणं तु । सव्वुत्तरइंदाणं विमाणपासेसु होंति कमे ॥ ४८५ ॥ रुचकं मंदराशोकं सप्तच्छदनामकं विमानं तु । सर्वोत्तरेन्द्राणां विमानपार्वेषु भवति क्रमेण ॥ ४८५ ॥ रुचकं । रुचकमन्दराशोकसप्तच्छदनामानि विमानानि सर्वोत्तरेन्द्राणां स्वस्वविमानचतुःपार्श्वे क्रमेण भवन्ति ॥ ४८५ ॥ अथ सौधर्मादिदेवानां मुकुटचिह्नानि गाथाद्वयेनाह;सोहम्मादीबारस साणदआरणगजुगवि कमा । देवाण मउलचिह्न वराहमयमहिसमच्छावि ॥४८६ ॥ सौधर्मादिद्वादशसु आनतारणकयुगेपि क्रमात् । देवानां मौलिचिन्हं वराहमृगमहिषमत्स्या अपि ॥ ४८६ ॥ सौधम्मादी । सौधर्मादिषु द्वादशकल्पेषु आनतयुगले आरणयुगले च क्रमात् देवानां मौलिचिह्नानि वराहमृगमहिषमत्स्या अपि ॥ ४८६ ।।
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy