________________
:२८: तत्त्वन्यायविभाकरे
[ द्वितीयकिरणे स च सूक्ष्मैकेन्द्रियद्वित्रिचतुरिन्द्रियासंज्ञिसंज्ञिपश्चेन्द्रियभेदेन
सप्तविधोऽपि प्रत्येकं पर्याप्तापर्याप्तभेदतश्चतुर्दशविधः । स चेति । सूक्ष्माश्चैकेन्द्रियाश्च सूक्ष्मैकेन्द्रियाः, द्वे च त्रीणि च चत्वारि च द्वित्रिचत्वारि तानि इन्द्रियाणि येषां ते द्वित्रिचतुरिन्द्रियाः, असंज्ञिनश्च संज्ञिनश्वासंज्ञिसंज्ञिनस्ते च ते 5 पश्चेन्द्रियाश्चासंज्ञिसंज्ञिपञ्चेन्द्रियाः ततस्सर्वेषां द्वन्द्वः, त एव भेदो विशेषस्तेन जीवत्वेनैकविधोऽपि जीवस्सप्तविधो भवति, प्रकारप्रकारिणोः कथञ्चिद्भेदाभेदत्वादेकवचनं, एवंभूतोऽपि प्रत्येकं पुनः पर्याप्तापर्याप्तभेदमादाय चतुर्दशविधो भवतीति भावः, यद्यपि द्विविधा एकेन्द्रियाः, सूक्ष्मा बादराश्चेति तथाप्यत्र सूक्ष्माणामेकेन्द्रियत्वाव्यभिचारेण सूक्ष्मपदेन
शास्त्रप्रसिद्धत्वान्नामैकदेशग्रहणेऽपि नामग्रहणसंभवाच्च सूक्ष्मैकेन्द्रियाणां ग्रहणम् , बादराणा10 न्त्वेकेन्द्रियत्वव्यभिचारित्वं द्वीन्द्रियाणामपि बादरत्वात् , ततो बादरमात्रग्रहणे बादरैकेन्द्रि
यालाभात् लघुनिर्देशसम्भवे लाघवार्थिना गौरवेण निर्देशकरणानौचित्याच्च बादरैकेन्द्रियेतिगुरुभूतनिर्देशमपहायैकेन्द्रियेत्येवोक्तम् । सूक्ष्मबादरद्वित्रिचतुरिन्द्रियेत्यादिरूपेणोक्तौ तु सूक्ष्ममिन्द्रियं येषां बादरमिन्द्रियं येषामित्येवार्थो लभ्येत द्वे इन्द्रिये येषामित्यादिवत् समासानु
रोधान्न चैतदिष्टं तथापि बादरैकेन्द्रियालाभादतस्तथानिर्देशः कृत इति ध्येयम् ।। 15 ननु सप्तविधानां पर्याप्तापर्याप्तभेदेन चतुर्दशविधत्वमुच्यते तत्र पर्याप्तशब्दार्थो वाच्योऽ न्यथा तु न सुकरं भेदज्ञानमित्याशंकायां पर्याप्तशब्दप्रवृत्तिनिमित्तमादर्शयति
आत्मनः पौद्गलिकक्रियाविशेषपरिसमाप्तिः पर्याप्तिः। आत्मन इति । पौद्गलिको यः क्रियाविशेषस्तस्य परिसमाप्तिर्यया साऽऽत्मनिष्ठा पर्याप्तिशब्दवाच्या शक्ति:-करणविशेषः । पर्यापनं समापनं पर्याप्तिरिति नार्थः किन्तु पर्यापनं यत 20 इति व्युत्पत्त्या समाप्तिसाधनं ग्राह्यम् । एवं यस्याः शक्तस्सत्त्वे जीव आहारादिग्रहणाय समर्थो भवति सा, सा च शक्तियः पुद्गलोपचयैर्निवय॑ते ते पुद्गलोपचया अपि जीवेन गृहीताश्शत्युत्पत्तिजननपरिणमाभिमुखाः पर्याप्तिशब्देनोच्यन्ते । एतद्विपरीता-अशक्तिः, तन्निवर्तकपुद्गलासम्बन्धो वाऽपर्याप्तिः, न च समाप्तिः पर्याप्तिशब्दवाच्या, क्वचिदपि ग्रन्थेऽनुक्तत्वात् , न
च क्रियापरिसमाप्तिः पर्याप्तिरिति तत्त्वार्थभाष्ये श्रूयत इति वाच्यम् । अभिप्रायापरिज्ञानात् , 25 क्रियायाः परिसमाप्तिर्यत इति व्युत्पत्तेः । अत एव भाष्यटीकायां "पर्याप्तिः पुद्गलरूपाऽऽत्मनः
कर्तुः करणविशेषः । येन करणविशेषेणाऽऽहारादिग्रहणसामर्थ्यमात्मनो निष्पद्यते, तच करणं यैः पुद्गलैर्निवय॑ते ते पुद्गला आत्मनाऽऽत्तास्तथाविधपरिणतिभाजः पर्याप्तिशब्दे